Search This Blog

Wednesday, October 7, 2020

श्री कामाख्या कवचम्

अथ कामाख्या कवचम्


ॐ प्राच्यां रक्षतु मे तारा कामरुपनिवासिनी । 

आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ।।१।।


नैऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी । 

वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ।।२।।


कौबेर्यां पातु मे नित्यं श्रीविद्या बगलामुखी । 

ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ।।३।।


ऊर्ध्वं रक्षतु मे विद्या मातंगी पीठवासिनी । 

सर्वतः पातु मे नित्यं कामाख्याकालिका स्वयम् ।।४।।


ब्रह्मरुपा महाविद्या सर्वविद्यामयीस्वयम् । 

शीर्षे रक्षतु मे दुर्गा भालं श्री भवमोहिनी ।।५।। 


त्रिपुरा भ्रूयुगे पातु शर्वाणी पातु नासिकाम् । 

चक्षुषी चण्डिका पातु श्रोत्रे नीलसरस्वती ‌‌।।६।।


मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती । 

जिह्वां रक्षतु मे देवी जिह्वा ललनभीषणा ।।७।। 


वाग्देवी वदनं पातु वक्षः पातु महेश्वरी । 

बाहू महाभुजा पातु करांगुलीः सुरेश्वरी ।।८।।


पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी । 

उदरं पातु मे नित्यं महाविद्या महोदरी ।।९।।


उग्रतारा महादेवी जंघोरु परिरक्षतु । 

गुदं मुष्कं च मेढ्रं च नाभिं च सुर-सुन्दरी ।।१०।।


पदांगुलीः सदा पातु भवानी त्रिदशेश्वरी ।

रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ।।११।।


महाभयेषु घोरेषु महाभयनिवारिणी । 

पातु देवी महामाया कामाख्या पीठवासिनी ।।१२।।


भस्माचलगता दिव्यसिंहासनकृताश्रया ।

पातु श्रीकालिका देवी सर्वोत्पातेषु सर्वदा ।।१३।।


रक्षाहीनं तु यत् स्थानं कवचेनापि वर्जितम् ।

तत् सर्वं सर्वदा पातु सर्वरक्षणकारिणी ।।१४।।


इदं तु परमं गुह्यं कवचं मुनिसत्तम ।

कामाख्याया मयोक्तं ते सर्वरक्षाकरं परम् ।।१५।।


अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् ।

न तं स्पृशेद् भयं घोरं मन्त्रसिद्धिविरोधकम् ।।१६।।


जायते च मनःसिद्धिर्निर्विघ्नेन महामते । 

इदं यो धारयेत् कण्ठे बाही वा कवचं महत् ।।१७।।

 

अव्याहताज्ञः स भवेत् सर्वविद्याविशारदः। 

सर्वत्र लभते सौख्यं मंगलं तु दिनेदिने ।।१८।।


यः पठेत् प्रयतो भूत्वा कवचेंदमद्भुतम् । 

स देव्याः पदवीं याति सत्यं सत्यं न संशयः ।।१९‌।।


।। इति श्री कामाख्या कवचम् संपूर्णम् ।। 

   श्री कामाख्या दैव्यैचरणार्पणमस्तु