Search This Blog

Wednesday, October 7, 2020

श्री गोपाल कवचम्

अथ श्रीगोपालकवचम् 


।। श्रीगणेशाय नमः ।। 


।। श्रीमहादेव उवाच ।।


अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः । 

यस्य स्मरणमात्रेण जीवनमुक्तो भवेन्नरः ॥ १ ॥ 


श्रृणु देवि प्रवक्ष्यामि सावधानावधारय । 

नारदोऽस्य ऋषिर्देवि छंदोऽनुष्टुबुदाह्रतम् ॥ २ ॥ 


देवता बालकृष्णश्र्च चतुर्वर्गप्रदायकः । 

शिरो मे बालकृष्णश्र्च पातु नित्यं मम श्रुती ॥ ३ ॥ 


नारायणः पातु कंठं गोपीवन्द्यः कपोलकम् । 

नासिके मधुहा पातु चक्षुषी नंदनंदनः ॥ ४ ॥ 


जनार्दनः पातु दंतानधरं माधवस्तथा । 

ऊर्ध्वोष्ठं पातु वाराहश्र्चिबुकं केशिसूदनः ॥ ५ ॥ 


ह्रदयं गोपिकानाथो नाभिं सेतुप्रदः सदा । 

हस्तौ गोवर्धनधरः पादौ पीतांबरोऽवतु ॥ ६ ॥ 


करांगुलीः श्रीधरो मे पादांगुल्यः कृपामयः । 

लिंगं पातु गदापाणिर्बालक्रीडामनोरमः ॥ ७ ॥ 


जग्गन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्र्चिमम् । 

उत्तरं कैटभारिश्र्च दक्षिणं हनुमत्प्रभुः ॥ ८ ॥ 


आग्नेयां पातु गोविंदो नैर्ऋत्यां पातु केशवः । 

वायव्यां पातु दैत्यारिरैशान्यां गोपनंदनः ॥ ९ ॥ 


ऊर्ध्वं पातु प्रलंबारिरधः कैटभमर्दनः । 

शयानं पातु पूतात्मा गतौ पातु श्रियःपतिः ॥ १० ॥ 


शेषः पातु निरालम्बे जाग्रद्भावे ह्यपांपतिः । 

भोजने केशिहा पातु कृष्णः सर्वांगसंधिषु ॥ ११ ॥ 


गणनासु निशानाथो दिवानाथो दिनक्षये । 

इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ १२ ॥ 


यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः । 

तस्याशु विपदो देवि नश्यंति रिपुसंधतः ॥ १३ ॥ 


अंते गोपालचरणं प्राप्नोति परमेश्र्वरि । 

त्रिसंध्यमेकसंध्यं वा यः पठेच्छृणुयादपि ॥ १४ ॥ 


तं सर्वदा रमानाथः परिपाति चतुर्भुजः । 

अज्ञात्वा कवचं देवि गोपालं पूजयेद्यदि ॥ १५ ॥ 


सर्व तस्य वृथा देवि जपहोमार्चनादिकम् । 

सशस्रघातं संप्राप्य मृत्युमेति न संशयः ॥ १६ ॥ 


॥ इति नारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीगोपालकवचं संपूर्णम् ॥