Search This Blog

Sunday, September 27, 2020

श्री नवग्रह कवचम्

अथ नवग्रह कवचम्
 
ॐ शिरो मे पातु मार्तण्ड: कपालं रोहिणीपति: ।
मुखमङ्गारक: पातु कण्ठं च शशिनन्दन: ।
बुद्धिं जीव: सदा पातु हृदयं भृगुनन्दन: । 
जठरं च शनि: पातु जिह्वां मे दितिनन्दन: ।।

पादौ केतु: सदा पातु वारा: सर्वाङ्गमेव च । 
तिथयोऽष्टौ दिश: पान्तु नक्षत्राणि वपु: सदा ।।

अंसौ राशि: सदा पातु योगश्च स्थैर्यमेव च । 
सुचिरायु: सुखी पुत्री युद्धे च विजयी भवेत् ।।

रोगात्प्रमुच्यते रोगी बन्धो मुच्येत बन्धनात् । 
श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते ।।

य: करे धारयेन्नित्यं तस्य रिष्टिर्न जायते ।।
 
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते ।
मृतवत्सा च या नारी काकवन्ध्या च या भवेत् ।
जीववत्सा पुत्रवती भवत्येव न संशय: ।।

एतां रक्षां पठेद् यस्तु अङ्ग स्पृष्ट्वापि वा पठेत् ।।

।। इति श्री नवग्रह कवचम् संपूर्णम् ।।