Search This Blog

Saturday, October 3, 2020

श्री मंगल स्तोत्रम्

अथ श्री मंगल स्तोत्रम् 


मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । 

स्थिरासनो महाकयः सर्वकर्मविरोधकः ।।१।।


लोहितो लोहिताक्षश्च सामगानां कृपाकरः । 

धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः।।२।।


अङ्गारको यमश्चैव सर्वरोगापहारकः । 

व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः।।३।।


एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् ।

ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ।।४।।


धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । 

कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ।।५।।


स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः । 

न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ।।६।।


अङ्गारक महाभाग भगवन्भक्तवत्सल । 

त्वां नमामि ममाशेषमृणमाशु विनाशय ।।७।।


ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः । 

भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ।।८।।


अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः । 

तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् ।।९।।


विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा । 

तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ।।१०।।


पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः । 

ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ।।११।।


एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् । 

महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२।।


।। इति श्री ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम्।।