Search This Blog

Sunday, September 27, 2020

श्री सूर्य कवचम्

।। ॐ ह्रीं घृणि: सूर्य आदित्योम् ।।
अथ श्रीसूर्यकवचस्तोत्रम् 
।। श्री गणेशाय नमः ।।
याज्ञवल्क्य उवाच ।

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ।।१।।

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् । 
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ।।२।।

शिरो मे भास्करः पातु ललाटे मेऽमितद्दुतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ।।३।।

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः ।
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः ।।४।।

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः ।
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः ।५।।

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः ।।६।।

सुस्नातो यो जपेत्सम्यक् योऽधीते स्वस्थ मानसः ।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ।।७।।

।।इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं।।