Search This Blog

Sunday, September 27, 2020

श्री बुध कवचम्

अथ श्रीबुधकवचम्
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य। 
कश्यप ऋषिः ।
अनुष्टुप् छंदः । 
बुधो देवता ।
बुं बीजं ।
बुधपीडाशमनार्थं जपे विनियोगः ।।

बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः। 
पितांबरधरः पातु पितमाल्यानुलेपनः ।।१।।

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ।।२।।

घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम ।
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः ।।३।।

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ।।४।।

जानुनी रौहिणेयश्च पातु जंघेऽखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपु ।।५।।

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् ।।६।।

आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् ।।७।।

।।इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं।।