अथ केतु कवचम्
अस्य श्री केतु कवच स्तोत्र मंत्रस्य ।
त्र्यंबक ऋषिः ।
अनुष्टप् छन्दः ।
केतुर्देवता ।
कें बीजं ।
नमः शक्तिः ।
केतुरिति कीलकम् ।
केतुप्रीत्यर्थं जपे विनियोगः ।।
केतु करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ।।१।।
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ।।२।।
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ।।३।।
हस्तौ पातु श्रेष्ठः कुक्षिं पातु महा ग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महा सुरः ।।४।।
ऊरुं पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ।।५।।
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ।।६।।
।।इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं।।
श्री केतु देवता चरणार्पणमस्तु