Search This Blog

Wednesday, October 7, 2020

श्री शाबरी कवचम्

अथ शाबरी कवचम्


अथ ध्यानम्

ॐ नमो भगवते श्रीवीरभद्राय ।

विरुपाक्षी लं निकुंभिनी षोडशी उपचारिणी ।

वरुथिनी मांसचर्विणी ।

चें चें चें चामलरायै ।

धनं धनं कंप कंप आवेशय ।

त्रिलोकवर्ति लोकदायै ।

सहस्त्रकोटिदेवानां आकर्षय आकर्षय ।

नवकोटी गंधर्वानां आकर्षय आकर्षय ।

हंसः हंसः सोहं सोहं सर्व रक्ष मां रक्ष भूतेभ्यो रक्ष । 

ग्रहेभ्यो रक्ष । 

पिशाचेभ्या रक्ष ।

शाकिनीती रक्ष डाकिनीती रक्ष ।

अप्रत्यक्ष प्रत्यक्षारिष्टेभ्यो रक्ष रक्ष ।

महाशक्ति रक्ष । 

कवचशक्ति रक्ष ।

रक्ष ओजंवाल । 

गुरुवाल ।

ॐ प्रसह हनुमंत रक्ष । 

श्रीमन्नाथगुरुत्रयं गणपतिं पीठत्रयं भैरव ॥


सिद्धाढ्यं बटुकत्रय पदयुगं द्युतित्र्कंमं मंडल ॥


वैराटाष्टचतुष्टयं च नक्कं वैरावली पंचकं ।

श्रीमन्मालिनीमंत्रराजसहितं वंदे गुरोमंडलम् ।।


।। इति ध्यानम् ।।


। अथ प्रार्थना ।


ॐ र्‍हां र्‍हीं र्‍हृं क्षां क्षीं क्षुं ।

कृष्णक्षेत्रपालाय नमः आगच्छ आगच्छ ।

बली सर्वग्रहशमन मम कार्यं कुरु कुरु स्वाहा ।

ॐ नमो ॐ र्‍हीं श्रीं क्लीं ऐं चक्रेश्र्वरी ।

शंखचक्र गदा पद्मधारिणी ।

मम वांछित सिद्धिं कुरु कुरु स्वाहा ।।


ॐ नमो कमलवदन मोहिनी सर्वजनवशकारिणी साक्षात् ।

सूक्ष्मस्वरुपिणी यन्मम वशगा ॐ सुरातुरा भवेयुः स्वाहा ।।


गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्र्वरः ।

गुरु साक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः ॥


अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥


अरुणकिरण जालं रंजिता सावकाशा । 

विधृतजपमाला वीटिका पुस्तकहस्ता ।

इतरकरकराढ्या फुल्लकल्हार हस्ता ।

निवसतु हृदि बाला नित्यकल्याणशीला ॥


।। अथ शाबरीकवचजपे विनियोगः ।।


॥ श्री ॥

॥ अथ शाबरीकवचपाठप्रारंभः ॥


ॐ सर्वविघ्ननाशाय । 

सर्वारिष्ट निवारणाय ।

सर्व सौख्यप्रदाय । 

बालानां बुद्धिप्रदाय ।

नानाप्रकारकधनवाहन भूमिप्रदाय ।

मनोवांछितफलप्रदाय । 

रक्षां कुरु कुरु स्वाहा ।

ॐ गुरुवे नमः ।  

ॐ श्रीकृष्णाय नमः ।  

ॐ बलभद्राय नमः । 

ॐ श्रीरामाय नमः ।

ॐ हनुमते नमः । 

ॐ शिवाय नमः ।

ॐ जगन्नाथाय नमः । 

ॐ बद्रिनारायणाय नमः ।

ॐ दुर्गादेव्यै नमः । 

ॐ सूर्याय नमः ।

ॐ चंद्राय नमः । 

ॐ भौमाय नमः ।

ॐ बुधाय नमः । 

ॐ गुरुवे नमः ।

ॐ भृगवे नमः । 

ॐ शनैश्र्वराय नमः ।

ॐ राहवे नमः । 

ॐ पुच्छनायकाय नमः ।

ॐ नवग्रह रक्षा कुरु कुरु नमः । 

ॐ मन्ये वरं हरिहरादय एवं दृष्ट्वा ।      

दृष्टेषु हृदयं त्वयि तोषमेतिः ।

किं वीक्षितेन भवता भुवि अेन नान्यः कश्र्चित् मनो हरति नाथ भवानत एहि ।

ॐ नमः श्रीमन्बलभद्रजयविजय अपराजित भद्रं भद्रं कुरु कुरु स्वाहा ।

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो नः प्रचोदयात् ॥


सर्वविघ्नशांति कुरु कुरु स्वाहा ।

ॐ ऐं र्‍हीं क्लीं श्री बटुकभैरवाय ।

आपदुद्धरणाय । 

महानभस्याय स्वरुपाय ।

दीर्घारिष्टं विनाशय विनाशय ।

नानाप्रकारभोगप्रदाय । 

मम सर्वारिष्टं हन हन ।

पच पच हर हर कच कच राजद्वारे जयं कुरु कुरु ।

व्यवहारे लाभं वर्धय वर्धय ।

रणे शत्रुं विनाशय विनाशय ।

अनापत्तियोगं निवारय निवारय ।

संतत्युत्पत्तिं कुरु कुरु । 

पूर्ण आयुः कुरु कुरु ।

स्त्रीप्राप्तिं कुरु कुरु । 

हुं फट् स्वाहा ॥


ॐ नमो भगवते वासुदेवाय नमः ।

ॐ नमो भगवते विश्र्वमूर्तये नारायणाय ।

श्रीपुरुषोत्तमाय रक्ष रक्ष ।

युष्मदधीनं प्रत्यक्षं परोक्षं वा ।

अजीर्ण पच पच । 

विश्र्वमूर्ते अरीन् हन हन ।

एकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशय ।

चतुरधिकान्वातान् अष्टादशक्षयरोगान् अष्टादशकुष्टान् हन हन। 

सर्वदोषान् भंजय भंजय । 

तत्सर्वं नाशय नाशय ।

शोषय शोषय आकर्षय आकर्षय ।

मम शत्रुं मारय मारय । 

उच्चाटय उच्चाटय विद्वेषय विद्वेषय ।

स्तंभय स्तंभय निवारय निवारय । 

विघ्नान् हन हन । 

दह दह पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय 

चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हन हन ।

पर विद्या छेदय छेदय ।

चतुरशीतिचेटकान् विस्फोटय नाशय नाशय ।

वातशूलाभिहत दृष्टीन् ।

सर्पसिंहव्याघ्रद्विपादचतुष्पाद ।

अपरे बाह्यांतरा दिभुव्यंतरिक्षगान् । 

अन्यानपि कश्र्चित् देशकालस्थान् ।

सर्वान् हन हन । 

विषममेघनदीपर्वतादीन् ।

अष्टव्याधीन् सर्वस्थानानि रात्रिदिनपथग चोरान् वशमानय वशमानय ।

सर्वोपद्रवान् नाशय नाशय ।

परसैन्यं विदारय विदारय परचक्रं निवारय निवारय ।

दह दह रक्षां कुरु कुरु ।

ॐ नमो भगवते ॐ नमो नारायण हुं फट् स्वाहा ।

ठः ठः ॐ र्‍हां र्‍हीं हृदये स्वदेवता ॥


एषा विद्या महानाम्नी पुरा दत्ता शतक्रतोः ।

असुरान् हन्तु हत्वा तान् सर्वाश्र्च बलिदानवान् ।

यः पुमान् पठते नित्यं वैष्णवीं नियतात्मवान् ।

तस्य सर्वान् हिंसती यस्या दृष्टिगतं विषम् ।

अन्यादृष्टिविषं चैव न देयं संक्रमे ध्रुवम् ।

संग्रामे धारयत्यंगे उत्पातशमनी स्वयम् ॥


सौभाग्यं जायते तस्य परमं नात्र संशयः ।

हूते सद्यो जयस्तस्य विघ्नं तस्य न जायते ।

किमत्र बहुनोक्तेन सर्वसौभाग्यसंपदः ।

लभते नात्र संदेहो नान्यथा नदिते भवेत् ॥


गृहीतो यदि वा यत्नं बालानां विविधैरपि ।

शीतं चोष्णतां याति उष्णः शीतमयो भवेत् ॥


नान्यथा श्रुयते विद्यां यः पठेत् कथितां मया ।

भूर्जपत्रे लिखेद्यंत्र गोरोचनमयेन च ।

इमां विद्यां शिरोबंधात्सर्वरक्षां करोनु मे ।

पुरुषस्याथवा नार्या हस्ते बध्वा विचक्षणः ।

विद्रवंति प्रणश्यंति धर्मस्तिष्ठति नित्यशः ।

सर्वशत्रुभयं याति शीघ्रं ते च पलायिताः ॥


ॐ ऐं र्‍हीं क्लीं श्रीं भुवनेश्र्वर्यै ।

श्रीं ॐ भैरवाय नमो नमः ।

अथ श्रीमातंगीभेदा द्वाविंशाक्षरो मंत्रः ।

समुख्यायां स्वाहातो वा ॥ 


हरिः ॐ उच्चिष्टदेव्यै नमः ।

डाकिनी सुमुखिदेव्यै महापिशाचिनी ।

ॐ ऐं र्‍हीं ठाः ठः द्वाविंशत् ॐ चक्रीधरायाः ।

अहं रक्षां कुरु कुरु । 

सर्वबाधाहरिणी देव्यै नमो नमः ।

सर्वप्रकार बाधाशमनं अरिष्टनिवारणं कुरु कुरु ।

फट् श्री ॐ कुब्जिकादेव्यै र्‍हीं ठः स्वः ।

शीघ्रं अरिष्टनिवारण कुरु कुरु ।

देवी शाबरी कीं ठः स्वः ।

शारीरिकं भेदाहं माया भेदय पूर्ण आयुः कुरु ।

हेमवती मूलरक्षां कुरु ।

चामुंडायै देव्यै नमः ।

शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तरक्षां कुरु ।

भूतप्रेतपिशाचान् घातय ।

जादूटोणाशमनं कुरु । 

सती सरस्वत्यै चंडिकादेव्यै गलं विस्फोटकान् वीक्षित्य शमनं कुरु।

महाज्वरक्षयं कुरु स्वाहा ।

सर्वसामग्री भोग सत्यं दिवसे दिवसे देहि देहि रक्षां कुरु कुरु ।

क्षणे क्षणे अरिष्टं निवारय ।

दिवसे दिवसे दुःखहरणं मंगलकरणं कार्यासिद्धिं कुरु कुरु ।

हरि ॐ श्रीरामचंद्राय नमः ।


हरिः ॐ भूर्भुवः स्वः चंद्रतारानवग्रहशेषनागपृथ्वीदेव्यै

आकाशनिवासिनी सर्वारिष्टशमनं कुरु स्वाहा ॥


आयुरारोग्यमैश्र्वर्यं वित्तं ज्ञानं यशोबलम् ॥


नाभिमात्रजले स्थित्वा सहस्त्रपरिसंख्यया ॥


जपेत्कवचमिदं नित्यं वाचां सिद्धिर्भवे त्ततः ॥


अनेन विधिना भक्त्याकवचसिद्धिश्र्च जायते ॥


शतमावर्तयेद्युस्तु मुच्यते नात्र संशयः ॥


सर्वव्याधिभयस्थाने मनसाऽस्य तु चिंतनम् ॥


राजानो वश्यतां यांति सर्वकामार्थसिद्धये ॥


अनेन यथाशक्तिपाठेन शाबरीदेवी प्रीयतां नमम ॥


। शुभं भवतु । 


॥ इति शाबरीकवचं ॥