Search This Blog

Saturday, October 3, 2020

श्री केतु स्तोत्रम्

अथ केतु स्तोत्रम्


केतु: काल: कलयिता धूम्रकेतुर्विवर्णक:।

लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।१।।


रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्ध्रक्।

फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।२।।


तारागणविमर्दो च जैमिनेयो ग्रहाधिप:।

पंचविंशति नामानि केतुर्य: सततं पठेत् ।।३।।


तस्य नश्यंति बाधाश्चसर्वा: केतुप्रसादत:।

धनधान्यपशूनां च भवेद् व्रद्विर्नसंशय: ।।४।।

इति श्री केतु स्तोत्रम् संपूर्णम्

श्री केतु देवता चरणार्पणमस्तु