अथ श्री गायत्री कवचम्
विनियोग:
ऋषिरस्य समारख्यातो महादेवो महेश्वर: ।
देवता देवजननी छन्दः सामादि कीर्तितम् ॥१॥
धर्मार्थकाममोक्ष अर्थ विनियोग ॥२॥
अथ गायत्री कवचम्
ॐ अस्य श्री गायत्री कवचस्य ब्रह्माऋषि गायत्री छंदो गायत्री देवता ॐ भूः बीजम् भुवः शक्ति स्वः किलकम् गायत्री प्रित्यर्थं पाठे विनियोग: ।
अथ ध्यानम्
पंचवक्त्रां दशभुजां सूर्यकोटी समप्रभाम् ।
सावित्री ब्रह्मवरदां चन्द्रकोटि सुशीलताम् ।।१।।
त्रिनेत्रां सितवक्त्रां मुक्ताहार विराजिताम् ।
वराऽभयांकुश कशा हेमपात्राक्षमालिका ।।२।।
शंखचक्राऽब्ज युगलं कराभ्यां दधतीं पराम् ।
सिंत पंकज संस्था च हंसारुढां सुखस्मितम् ।। ३।।
बह्मोवाच कवचम्
विश्वामित्र महाप्राज्ञ गायत्री कवच श्रुणु ।
यस्यविज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात ।।१।।
सावित्री मे शिरः पातु शिखायाममृतेश्वरी ।
ललाटं ब्रह्मदैवत्या भ्रुवो पातु वैष्णवी ॥२॥
कर्णो में पातु इन्द्रायणी सूर्यासावित्रिकाऽम्बिके ।
गायत्री वदनं पातु शारदा दशनच्छदौ ।।३।।
द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।
सांख्यायनी नासिका मे कपोलौ चंद्रहासिनी ॥४ ॥
चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।
स्तनौ मे पातु इन्द्राणी हृदयम् ब्रह्मवादिनी ॥५॥
उदरं विश्वभोकत्री च नाभौ पातु सुरप्रिया ।
जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ||६||
पार्श्वो मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु ।
उर्ध्वोरोंकाररूपा च जान्वोः सन्धात्मिकाऽवतु ॥७॥
जंघ्योः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।
सूर्या पदद्वयं पातु चंद्रा पादांगुलिषु च ।।८।
सर्वांग वेद जननी पातु मे सर्वदा ऽनघा ।
इत्येतत् कवचं ब्रह्मन । गायत्र्याः सर्वपावनम् ॥९॥
फलश्रुती
पुण्यं पवित्रं पापघ्नं सर्वरोग निवारणम् ।
त्रिसन्ध्यं यः पठेद् विद्वान सर्वान् कामानवाप्नुयात् ||१०॥
सर्वशास्त्रार्थतत्वज्ञः स भवेद्वेद वित्तमः।
सर्व यज्ञ फलं प्राप्य ब्रह्मान्ते समवाप्नुयात् ॥११॥
प्राप्नोति जपमात्रेण पुरूषार्थाश्चतुर्विधान ||१२||
।। इति श्री गायत्री रहस्यतंत्र गायत्री कवचम् ।।