ॐ सह नाववतु सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ।।
ॐ अथ पुरुषो ह वै नारायणॊऽकामयत प्रजाः सृजेयेति ।
नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते ।
नारायणाद्रुद्रो जायते ।
नारायणादिन्द्रो जायते ।
नारायणात्प्रजापति: प्रजायते ।
नारायणाद् द्वादशदित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते ।
नारायणात्प्रवर्तन्ते ।
नारायणे प्रलीयन्ते ।
एतदृग्वेदशिरोऽधीते ।। १ ।।
अथ नित्यो नारायणः ।
ब्रह्मा नारायणः ।
शिवश्च नारायणः ।
शक्रश्च नारायणः ।
कालश्च नारायणः ।
दिशश्च नारायणः ।
विदिशश्च नारायणः ।
ऊर्ध्वं च नारायणः ।
अधश्च नारायणः ।
अन्तर्बहिश्च नारायणः ।
नारायण एवेदं सर्वम् यद्भूतं यच्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः ।
न द्वितीयोऽस्ति कश्चित् ।
य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ।
एतद्दजुर्वेदशिरोऽधीते ।।२।।
ओमित्यग्रे व्याहरेत् ।
नम इति पश्चात् ।
नारायणायेत्युपरिष्टात् ।
ओमित्येकाक्षरम् ।
नम इति द्वे अक्षरे ।
नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति ।
अनपब्रुवः सर्वमायुरेति ।
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति ।
एतत्सामवेदशिरोऽधीते ।।३।।
प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् ।
अकार उकार मकार इति ।
ता अनेकधा समभवत्तदेतदोमिति ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं गमिष्यति ।
तदिदं पुण्डरीकं विज्ञानघनम् तस्मात्तडिदाभमात्रम् ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदन: ।
ब्रह्मण्य: पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ।
सर्वभूतस्थमेकं वै नारायणमं कारणपुरूषमकारणं परं ब्रह्मोम् । एतदथर्वशिरोऽधीते ।।४।।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायं प्रातरधीयान: पापोऽपाप भवति ।
मध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते ।
सर्ववेदपारायणपुण्यं लभते ।
नारायणसायुज्यमवाप्नोति श्रीमन्नारायणसायुज्यमवाप्नोति य एवं वेद ।।५।। इत्युपनिषत् ।।
ॐ सह नाववतु सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ।।