Search This Blog

Friday, June 28, 2024

श्री देव्याथर्वशीर्षम्

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।   

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः॥ 

स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः! शान्तिः!! शान्तिः!!!


ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ।।१।।

साब्रवीत्- अहं ब्रह्म्स्वरुपिणी । 
मत्तः प्रकृतिपुरुषात्मकं जगत् । 
शून्यं चाशून्यं च ।।२।।

अहमानन्दानानन्दौ । 
अहं विज्ञानाविज्ञाने । 
अहं ब्रह्माब्रह्मणी वेदितव्ये । 
अहं पञ्च्भूतान्यपञ्चभूतानि । 
अहमखिलं जगत् ।।३।।

वेदोऽहमवेदोऽहम् । 
विद्याहमविद्याहम् । 
अजाहमनजाहम् । 
अधश्चोर्ध्वं च तिर्यक्चाहम् ।।४।।

अहं रुद्रेभिर्वसुभिश्चरामि । 
अहमादित्यैरुत विश्वदेवैः । 
अहं मित्रावरुणावुभौ बिभर्मि । 
अहमिन्द्राग्नी अहमश्विनावुभौ ।।५।।

अहं सोमं त्वष्टारं पूषणं भगं दधामि । 
अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ।।६।।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । 
अहं राष्ट्री सङ्ग्मनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । 
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । 
य एवं वेद । 
स दैवीं संपदमाप्नोति।।७।।

ते देवा अब्रुवन्- नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।।८।।

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफ़लेषु जुष्टाम् ।
दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नायित्र्यै ते नमः ।।९।।

देवीं वाचमजनयन्त  देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ।।१०।।

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्  ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ।।११।।

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ।।१२।।

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वाजायन्त भद्रा अमृतबन्धवः ।।१३।।

कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभमिन्द्रः ।
पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम्  ।।१४।।

एषाऽऽत्मशक्तिः। 
एषा विश्वमोहिनी । 
पाशाङ्कुशधनुर्बाणधरा ।
एषा श्रीमहाविद्या । 
 एवं वेद स शोकं तरति ।।१५।।

नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः ।।१६।।

सैषाष्टाै वसवः । 
सैषैकादश रुद्राः । 
सैषा द्वादशादित्याः । 
सैषा विश्वेदेवाः सोमपा असोमपाश्च । 
सैषा यातुधाना दैव्या देवताम् रक्षांसि पिशाचा यक्षाः सिद्धाः । 
सैषा सत्त्वरजस्तमांसि ।  
सैषा ब्रह्मविष्णुरुद्ररुपिणी । 
सैषा प्रजापतीन्द्रमनवः ।  
सैषा ग्रहनक्षत्रज्योतींषि । 
कलाकाष्ठादिकालरूपिणी । 
तामहं प्रणौमि नित्यम् ।।
पपापहारिणीं देवीं भक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ।।१७।।

वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ।।१८।।

एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ।।१९।।

वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् ।
सूर्योऽवामश्रोत्रबिन्दुसन्युक्तष्टात्तृतीयकः ।
नारायणेन सम्मिश्रो वायुश्चाधरयुक् ततः ।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ।।२०।।

ह्रत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । 
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । 
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ।।२१।।

नमामि त्वां महादेवीं महाभयविनाशिनीम् । 
महादुर्गप्रशमनींमहाकारुन्यरूपिणीम् ।।२२।।

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । 
यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । 
यस्या लक्ष्यं नोपलभ्यते तस्मादुच्यते अलक्ष्या । 
यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । 
एकैव सर्वत्र वर्तते तस्मादुच्यते एका ।
एकैव विश्वरूपिणी तस्मादुच्यते नैका । 
अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ।।२३।।

मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।।२४।।

तां दुर्गा दुर्गमां देवीं दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ।।२५।।

इदमर्थर्वशीर्षं योऽधीते स पन्चाथर्वशीर्षजपफलमाप्नोति । 
इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति-शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः।
दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ।।२६।।

सायमधीयानो दिवसकृतं पापं नाश्यति । 
प्रातरधीयानो रात्रिकृतं पापं नाश्यति ।
सायं प्रातः प्रयुञ्जानो अपापो भवति । 
निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । 
नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति ।
स महामृत्युं तरति य एवं वेद ।। 
त्युपनिषत् ।।

।। इति श्री देव्याथर्वशीर्षम् संपूर्णम् ।।

श्री दैव्याचरणार्पणमस्तु

श्री शुभं भवतु

श्री मंगल चंडिका मंत्र

।। ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ऐं क्रूं फट् स्वाहाः ।।