Search This Blog

Showing posts with label ।। श्री नारायणाथर्वशीर्षम् ।।. Show all posts
Showing posts with label ।। श्री नारायणाथर्वशीर्षम् ।।. Show all posts

Saturday, October 3, 2020

श्री नारायणाथर्वशीर्षम्

ॐ सह नाववतु सह नौ भुनक्तु  । 
सह वीर्यं करवावहै  । 
तेजस्विनावधीतमस्तु  । 
मा विद्विषावहै ।।

ॐ शान्तिः ! शान्तिः !! शान्तिः !!!

ॐ अथ पुरुषो ह वै नारायणॊऽकामयत प्रजाः सृजेयेति‌ । 
नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च । 
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । 
नारायणाद् ब्रह्मा जायते । 
नारायणाद्रुद्रो जायते । 
नारायणादिन्द्रो जायते । 
नारायणात्प्रजापति: प्रजायते । 
नारायणाद् द्वादशदित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते । 
नारायणात्प्रवर्तन्ते ‌। 
नारायणे प्रलीयन्ते । 
एतदृग्वेदशिरोऽधीते ।। १ ।।

अथ नित्यो नारायणः ।  
ब्रह्मा नारायणः । 
शिवश्च नारायणः । 
शक्रश्च नारायणः । 
कालश्च नारायणः । 
दिशश्च नारायणः । 
विदिशश्च नारायणः । 
ऊर्ध्वं च नारायणः । 
अधश्च नारायणः । 
अन्तर्बहिश्च नारायणः । 
नारायण एवेदं सर्वम् यद्भूतं यच्च भव्यम् । 
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । 
न द्वितीयोऽस्ति कश्चित् । 
य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति । 
एतद्दजुर्वेदशिरोऽधीते ।।२।।

ओमित्यग्रे व्याहरेत् । 
नम इति पश्चात् । 
नारायणायेत्युपरिष्टात् । 
ओमित्येकाक्षरम् । 
नम इति द्वे अक्षरे । 
नारायणायेति पञ्चाक्षराणि । 
एतद्वै नारायणस्याष्टाक्षरं पदम् । 
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । 
अनपब्रुवः सर्वमायुरेति । 
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । 
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । 
एतत्सामवेदशिरोऽधीते ।।३।।

प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् । 
अकार उकार मकार इति । 
ता अनेकधा समभवत्तदेतदोमिति । 
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । 
ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं गमिष्यति । 
तदिदं पुण्डरीकं विज्ञानघनम् तस्मात्तडिदाभमात्रम् । 
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदन: । 
ब्रह्मण्य: पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति । 
सर्वभूतस्थमेकं वै नारायणमं कारणपुरूषमकारणं पर‌ं ब्रह्मोम् । एतदथर्वशिरोऽधीते ।।४।।

प्रातरधीयानो रात्रिकृतं पापं नाशयति । 
सायमधीयानो दिवसकृतं पापं नाशयति । 
तत्सायं प्रातरधीयान: पापोऽपाप भवति । 
मध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते । 
सर्ववेदपारायणपुण्यं लभते । 
नारायणसायुज्यमवाप्नोति श्रीमन्नारायणसायुज्यमवाप्नोति य एवं वेद ।।५।। इत्युपनिषत् ।।
        
ॐ सह नाववतु सह नौ भुनक्तु  । 
सह वीर्यं करवावहै  । 
तेजस्विनावधीतमस्तु । 
मा विद्विषावहै ।।

ॐ शान्तिः ! शान्तिः !! शान्तिः !!!