Search This Blog

Showing posts with label ।। श्री कूर्म स्तोत्रम् ।।. Show all posts
Showing posts with label ।। श्री कूर्म स्तोत्रम् ।।. Show all posts

Sunday, September 27, 2020

श्री कूर्म स्तोत्रम्

अथ कूर्मस्तोत्रम्
श्री गणेशाय नमः 
।।देवा ऊचुः ।।

नमाम् ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् । 
प्रपन्नतापोपशमातपत्रम् यन्मूलकेता यतयोऽञ्जसोरुसंसारदुःखं बहिरुत्क्षिपन्ति ।।१।।

धातर्यदस्मिन्भव ईश जीवास्तापत्रयेणोपहता न शर्म ।
आत्मं लभन्ते भगवंस्तवाङ्घ्रिच्छायां सविद्यामत आश्रयेम ।।२।।

मार्गन्ति यत्ते मुखपद्मनीडैश्छन्दःसुपर्णैरृषयो विविक्ते ।
यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ।।३।।

यच्छ्रद्धया श्रुतवत्यां च भक्त्या संमृज्यमाने हृदयेऽवधाय ।
ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ।। तत्तेऽङ्घ्रिसरोजपीठम् ।।४।।

विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ।।  
स्वपुंसाम् ।।५।।

यत्सानुबन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम् ।ममाहमित्यूढदुराग्रहाणाम् पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन्पदाब्जम् ।।
भगवन्पदाब्जम् ।।६।।

तान्वा असद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश ।
अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्म्याः ।।७।।

पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ।।यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ।।८।।

तथापरे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् । 
बलिष्ठाम् त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ।।९।।

तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।
सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिहर्तवे ते ।।१०।।

यावद्बलिं तेजोहं राम काले यथा वयं चान्नमदाम यत्र ।
यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहाः ।।११।।

त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः ।
त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः ।।१२।।

ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते ।
त्वं नः स्वचक्षुः परिदेहि शक्त्या देवक्रियार्थे यदनुग्रहाणाम् ।। यदनुग्रहाणाम् ।।१३।।

।। इति श्रीमद्भागवतपुराणान्तर्गतं कूर्मस्तोत्रं समाप्तम् ।।