Search This Blog

Showing posts with label ।। श्री चन्द्र कवचम् ।।. Show all posts
Showing posts with label ।। श्री चन्द्र कवचम् ।।. Show all posts

Sunday, September 27, 2020

श्री चन्द्र कवचम्

अथ चन्द्रकवचम् 
श्री चंद्रकवचस्तोत्रमंत्रस्य । 
गौतम ऋषिः । 
अनुष्टुप् छंदः ।
चंद्रो देवता । 
सों बीजों ।
चन्द्रप्रीत्यर्थं जपे विनियोगः । 

समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शंकरस्य च भूषणम् ।
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।।१।।

शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ।।२।। 

घ्राणं क्षपाकरः पातु मुखं कुमुदबांधवः ।
पातु कण्ठं च मे सोमः स्कंधौ जैवा तृकस्तथा ।।३।।

करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः ।।४।।

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरू तारापतिः पातु मृगांको जानुनी सदा ।।५।।

अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानि चांगानि पातु चन्द्रोऽखिलं वपुः ।।६।।

एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छरुणुयाद्वापि सर्वत्र विजयी भवेत् ।।७।।

।।इति श्री चंद्रकवचं संपूर्णम्।।

 श्री चंद्र देव चरणार्पणमस्तु