Search This Blog

Showing posts with label ।। श्री दक्षिणकालिका कवचम् ।।. Show all posts
Showing posts with label ।। श्री दक्षिणकालिका कवचम् ।।. Show all posts

Wednesday, October 7, 2020

श्री दक्षिणकालिका कवचम्

।। श्री दक्षिणकालिका कवचम् ।।


कैलास शिखरारूढं भैरवं चन्द्रशेखरम् । 

वक्षःस्थले समासीना भैरवी परिपृच्छति ॥


भैरव्युवाच


देवेश परमेशान लोकानुग्रहकारकः ।

कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥


यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।

कवचं कालिका देव्याः कथयस्वानुकम्पया ॥


भैरवोवाच


अप्रकाश्य मिदं देवि नर लोके विशेषतः । 

लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥


भैरव्युवाच


सेवका वहवो नाथ कुलधर्म परायणाः । 

यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥


तेषां प्रयोग सिद्धयर्थ स्वरक्षार्थ विशेषतः । 

पृच्छामि बहुशो देव कथयस्व दयानिधे ॥


भैरवोवाच


कथयामि श्रृणु प्राज्ञे कालिका कवचं परम् । 

गोपनीयं पशोरग्रे स्वयोनिम परे यथा ॥


विनियोगः


अस्य श्री दक्षिणकालिका कवचस्य। 

भैरव ऋषिः। 

उष्णिक् छन्द:। 

अद्वैतरूपिणी श्री दक्षिणकालिका देवता। 

ह्नीं बीजं। 

हूं शाक्तिः। 

क्रीं कीलकं सर्वार्थ साधन पुरःसर मंत्र सिद्धौ विनियोगः ।


अथ कवचम् 


सहस्त्रारे महापद्मे कर्पूरधवलो गुरुः । 

वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥


परमेश: पुरः पातु परापर गुरुस्तथा । 

परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥


महादेवी सदा पातु महादेव: सदावतु । 

त्रिपुरो भैरवः दिव्यरूपधरः सदा ॥


ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु । 

चलश्चित्तः सदा पातु पातु चेलाञ्चलश्च पातु माम् ॥


कुमारः क्रोधनश्चैव वरदः स्मरदीपन: । 

मायामायावती चैव सिद्धौघा: पातु सर्वदा ॥


विमलो कुशलश्चैव भीजदेवः सुधारकः । 

मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥


मूलदेवो रतिदेवो विघ्नेश्वर हुताशान: । 

सन्तोषः समयानन्दः पातु माम मनवा सदा ॥


सर्वेऽप्यानन्दनाथान्तः अम्बान्तां मातरः क्रमात् । 

गणनाथः सदा पातु भैरवः पातु मां सदा ॥ 


बटुको नः सदा पातु दुर्गा मां परिरक्षतु ।

शिरसः पाद पर्यन्तं पातु मां घोरदक्षिणा ॥ 


तथा शिरसि माम काली ह्यदि मूले च रक्षतु । 

सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥


क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु । 

ह्नीं ह्नीं पातु सदाधोर दक्षिणेकालिके हृदि ॥


क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदावतु । 

ह्नीं ह्नीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥


पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु । 

षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥


मंत्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः । 

चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥


उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके । 

नीला घना वलाका च तथा परत्रिकोणके ॥


मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके । 

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥


बहिः षट्‌कोणके पान्तु विप्रचित्ता तथा प्रिये । 

सर्वाः श्यामाः खड्‌गधरा वामहस्तेन तर्जनीः ॥


ब्राह्मी पूर्वदले पातु नारायणि तथाग्निके । 

माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥


कौमारी पश्चिचे पातु वायव्ये चापराजिता । 

वाराहीत्तरे पातु नारासिंही शिवेऽवतु ॥


ऐं ह्नीं असिताङ्ग पूर्व भैरवः परिरक्षतु । 

ऐं ह्णीं रुरुश्चाजिनकोणे ऐं ह्नीं चण्डस्तु दक्षिणे ॥


ऐं ह्नीं क्रोधो नैऋतेऽव्यात् ऐं ह्नीं उन्मत्तकस्तथा । 

पश्चिमे पातु ऐं ह्नीं मां कपाली वायु कोणके ॥


ऐं ह्नीं भीषणाख्यश्च उत्तरे ऽवतु भैरवः । 

ऐं ह्नीं संहार ऐशान्यां मातृणामङ्कया शिवः ॥


ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् । 

ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदावतु ॥


ऐं वह्नि वेतालो वटुको दक्षिणे माम् सदाऽवतु । 

ऐं अग्निजिह्व वटुको ऽव्यात् नैऋत्यां पश्चिमे तथा ॥


ऐं कालवटुक: पातु ऐं करालवटुकस्तथा । 

वायव्यां ऐं एकः पातु उत्तरे वटुको ऽवतु ॥


ऐं भीम वटुकः पातु ऐशान्यां दिशि माम सदा । 

ऐं ह्णीं ह्नीं हूं फट् स्वाहान्ताश्चतुः षष्टि च मातरः ॥


ऊर्ध्वाधो दक्षवामागें पृष्ठदेशे तु पातु माम् । 

ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥


ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु । 

ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥


ऐं चौं चौं गजराजमुखी नैऋत्यां मां सदाऽवतु । 

ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥


ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु । 

ऐं हां हां ह्नस्वदीर्घमुखी लम्बोदर महोदरी ॥


पातुमामुत्तरे कोणे ऐं ह्नीं ह्नीं शिवकोणके । 

ह्नस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥


एताः श्मशानवासिन्यो भीषणा विकृताननाः । 

पांतु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥


इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता । 

दक्षे यमः सदा पातु नैऋत्यां नैऋतिश्च माम् ॥


वरुणोऽवतु मां पश्चात वायुर्मां वायवेऽवतु । 

कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥


ऊर्ध्व ब्रह्मा सदा पातु अधश्चानन्तदेवता । 

पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥


कालिका पातु शिरसि ह्र्दये कालिकाऽवतु । 

आधारे कालिका पातु पादयोः कालिकाऽवतु ॥


दिक्षु मा कालिका पातु विदिक्षु कालिकाऽवतु । 

ऊर्ध्व मे कालिका पातु अधश्च कालिकाऽवतु ॥


चर्मासूङ मांस मेदा‍ऽस्थि मज्जा शुक्राणि मेऽवतु । 

इन्द्रयाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥


आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु । 

वियति कालिका पातु पथिना कालिकाऽवतु ॥


शयने कालिका पातु सर्वकार्येषु कालिका । 

पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥


यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया । 

इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥


तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् । 

तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥


सर्व पापः क्षयं यान्ति वाञ्छा सर्वत्र सिद्धयति । 

नाम्नाः शतगुणं स्तोत्रं ध्यानं तस्मात् शताधिकम् ॥


तस्मात् शताधिको मंत्रः कवचं तच्छताधिकम् । 

शुचिः समाहितों भूत्वा भक्तिं श्रद्धा समन्वितः ॥


संस्थाप्य वामभागेतु शक्तितं स्वामि परायणाम् । 

रक्तवस्त्र परिघानां शिवमंत्रधरां शुभाम् ॥


या शक्तिः सा महादेवी हररूपश्च साधकः । 

अन्योऽन्य चिन्तयेद्देवि देवत्वमुपुजायते ॥


शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा । 

भोगैश्च मधुपर्काद्यै स्ताम्बूलैश्च सुवासितैः ॥ 


ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये । 

तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥


इदं रहस्यं परमं परं स्वस्त्ययनं महत् । 

या सकृत्तुपठद्देवि कवचं देवदुर्लभम् ॥


सर्वयज्ञ फलं तस्य भवेदेव न संशयः । 

संग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥


नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च । 

तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥


गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् । 

दीर्घायुः कामभोगीशो गुरुभक्ताः सदा भवेत् ॥


अहो कवच माहात्म्यं पठमानस्य नित्यशः । 

विनापिन योगेन योगीश समतां व्रजेत् ॥


सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । 

न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ।।


।। अथ श्री दक्षिणकालिका कवचम् सम्पूर्णम् ।।


  श्री दक्षिणकालिका चरणार्पणमस्तु