Search This Blog

Showing posts with label ।। श्री महालक्ष्मी कवचम् ।।. Show all posts
Showing posts with label ।। श्री महालक्ष्मी कवचम् ।।. Show all posts

Wednesday, November 18, 2020

श्री महालक्ष्मी कवचम्

अथ श्री महालक्ष्मी कवचम्

नारायण उवाच 

सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्र्च बृहती देवी पद्मालया सव्यम् ॥ १ ॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ २ ॥

ॐ हृीं कमलवासिन्यै स्वाहा मे पातु मे मम मस्तकम् ।
श्रीं मे पातु मम कपालं तथां पातु मम लोचने श्रीं श्रियै नमः ॥ ३ ॥

ॐ श्रीं श्रियै स्वाहेति पातु मम कर्णयुग्मं सदावतु ।
ॐ श्रीं हृीं क्लीं महालक्ष्म्यै स्वाहा पातु मे मम नासिकाम् ॥ ४ ॥

ॐ श्रीं पद्मालयायै च स्वाहा पातु मम दन्तं सदावतु ।
ॐ श्रीं कृष्णप्रियायै पातु मम दन्तरन्ध्रं सदावतु ॥ ५ ॥

ॐ श्रीं नारायणेशायै पातु मम कण्ठं सदावतु ।
ॐ श्रीं केशवकान्तायै पातु मम स्कन्धं सदावतु ॥ ६ ॥

ॐ श्रीं पद्मनिवासिन्यै स्वाहा पातु मम नाभिं सदावतु ।
ॐ हृीं श्रीं संसारमात्रे पातु मम वक्षः सदावतु ॥ ७ ॥

ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पातु मम पृष्ठं सदावतु ।
ॐ हृीं श्रीं श्रियै स्वाहा पातु मम हस्तौ सदावतु ॥ ८ ॥

ॐ श्रीं निवासकान्तायै पातु मम पादौ सदावतु ।
ॐ हृीं श्रीं क्लीं श्रियै स्वाहा पातु मम सर्वाङ्गं मे सदावतु ॥ ९ ॥

मम प्राच्यां पातु महालक्ष्मीराग्नेय्यां पातु मम कमलालया ।
पद्मा मां पातु मम दक्षिणे पातु मम नैर्ऋत्यां श्रीहरिप्रिया ॥ १० ॥

पद्मालया पश्र्चिमे मां पातु वायव्यां पातु मम श्रीः स्वयम् ।
उत्तरे कमला पातु मम ऐशान्यां सिन्धुकन्यका पातु मे मम॥ ११ ॥

मम नारायणेशी पातूर्ध्वमधो पातु मम विष्णुप्रियावतु ।
संततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ १२ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्र्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १३ ॥
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ।
यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ १४ ॥

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान् प्रतिजन्मनि ॥ १५ ॥

अस्ति लक्ष्मीर्गृहे तस्य निश्र्चला शतपूरुषम् ।
देवेन्द्रैश्र्चासुरेन्द्रैश्र्च सोऽवध्यो निश्र्चितं भवेत् ॥ १६ ॥

स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः । 
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ १७ ॥

यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत् ॥ १८ ॥

इदं कवचमज्ञत्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसंख्यं प्रजप्तोऽसि न मन्त्रः सिद्धिदायकः ॥ १९ ॥

॥ इति श्री महालक्ष्मीकवचं सम्पूर्णम् ॥ 

श्री महालक्ष्मी चरणार्पणमस्तु 

श्री शुभं भवतु

श्री महालक्ष्मी मंत्र

॥ ॐ श्रीं महालक्ष्म्यै च विद्महे सर्वलक्ष्म्यै च धीमहि । तन्नो महालक्ष्म्यै प्रचोदयात् ॥

श्री मंगल चंडिका मंत्र

।। ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ऐं क्रूं फट् स्वाहाः ।।