॥ ब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वमे।
रासेश्वरेण विभुना वै रासमण्डले॥
अतीव गोपनीयं च कल्पवृक्षसमं परम्।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम्॥
यद धृत्वा भगवाञ्छुक्रः सर्वदैवेषु पूजितः।
यद धृत्वा पठनाद ब्रह्मन बुद्धिमांश्च बृहस्पति॥
पठणाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः।
स्वायम्भुवो मनुश्चैव यद धृत्वा सर्वपूजितः॥
कणादो गौतमः कण्वः पाणिनीः शाकटायनः।
ग्रन्थं चकार यद धृत्वा दक्षः कात्यायनः स्वयम्॥
धृत्वा वेदविभागं च पुराणान्यखिलानि च।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम्॥
शातातपश्च संवर्तो वसिष्ठश्च पराशरः।
यद धृत्वा पठनाद ग्रन्थं याज्ञवल्क्यश्चकार सः॥
ऋष्यश्रृंगो भरद्वाजश्चास्तीको देवलस्तथा।
जैगीषव्योऽथ जाबालिर्यद धृत्वा सर्वपूजिताः॥
कचवस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः।
स्वयं च बृहतीच्छन्दो देवता शारदाम्बिका ।।१।।
सर्वतत्त्वपरिज्ञाने सर्वार्थसाधनेषु च।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ।।२।।
श्रीं ह्रीं सरस्वत्यै स्वाहा मां शिरो मे पातु सर्वतः।
श्रीं वाग्देवतायै स्वाहा पातु मम भालं मे सर्वदावतु ।।३।।
ॐ सरस्वत्यै स्वाहेति पातु मम श्रोत्रे निरन्तरम्।
ॐ श्रीं ह्रीं भारत्यै स्वाहा पातु मम नेत्रयुग्मं सदावतु ।।४।।
ऐं ह्रीं वाग्वादिन्यै स्वाहा पातु मम नासां मे सर्वतोऽवतु।
ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा पातु मम ओष्ठं सदावतु ।।५।।
ॐ श्रीं ह्रीं ब्राह्मयै स्वाहेति पातु मम दन्तपङ्क्तीः सदावतु।
ऐमित्येकाक्षरो मन्त्रो पातु मम कण्ठं सदावतु ।।६।।
ॐ श्रीं ह्रीं पातु मे मम ग्रीवां तथां मम स्कन्धौ मे श्रीं सदावतु।
ॐ श्रीं विद्याधिष्ठातृदेव्यै स्वाहा पातु मम वक्षः सदावतु ।।७।।
ॐ ह्रीं विद्यास्वरुपायै स्वाहा मे पातु मम नाभिकाम्।
ॐ ह्रीं ह्रीं वाण्यै स्वाहेति पातु मम हस्तौ सदावतु ।।८।।
ॐ सर्ववर्णात्मिकायै पातु मे मां पादयुग्मं सदावतु।
ॐ वागधिष्ठातृदेव्यै पातु मां सर्व सदावतु ।।९।।
ॐ सर्वकण्ठवासिन्यै स्वाहा पातु मे मम प्राच्यां सदावतु।
ॐ ह्रीं जिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु मां सदावतु ।।१०।।
ॐ ऐं ह्रीं श्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा।
सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ।।११।।
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां मे मां सदावतु।
कविजिह्वाग्रवासिन्यै स्वाहा मां पातु वारुणेऽवतु ।।१२।।
ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां पातु सदावतु।
ॐ ऐं श्रीं गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु सदावतु ।।१३।।
ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां मां पातु सदावतु।
ॐ ह्रीं सर्वपूजितायै स्वाहा पातु मां चोर्ध्वं सदावतु ।।१४।।
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाधो पातु मां सदावतु।
ॐ ग्रन्थबीजरुपायै स्वाहा पातु मां सर्वतोऽवतु ।।१५।।
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम्।
इदं विश्वजयं नाम कवचं ब्रह्मरुपकम् ।।
पुरा श्रुतं धर्मवक्त्रात पर्वते गन्धमादने।
तव स्नेहान्मयाऽख्यातं प्रवक्तव्यं न कस्यचित् ।।
गुरुमभ्यर्च्य विधिवद वस्त्रालंकारचन्दनैः।
प्रणम्य दण्डवद भूमौ कवचं धारयेत सुधीः ।।
पञ्चलक्षजपैनैव सिद्धं तु कवचं भवेत्।
यदि स्यात सिद्धकवचो बृहस्पतिसमो भवेत् ।।
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत्।
शक्नोति सर्वे जेतुं स कवचस्य प्रसादतः ।।
इदं ते काण्वशाखोक्तं कथितं कवचं मुने।
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ।।
॥ इति श्रीब्रह्मवैवर्ते ध्यानमन्त्रसहितं विश्वविजय-सरस्वतीकवचं सम्पूर्णम् ॥
श्री सरस्वत्यै चरणार्पणमस्तु
श्री शुभं भवतु