Search This Blog

Showing posts with label Brihaspati Kavach. Show all posts
Showing posts with label Brihaspati Kavach. Show all posts

Sunday, September 27, 2020

श्री बृहस्पति कवचम्

अथ बृहस्पतिकवचम् 
अस्य श्री बृहस्पतिकवचस्तोत्रमंत्रस्य ।
ईश्वरऋषिः । 
अनुष्टुप् छंदः । 
गुरुर्देवता। 
गुं बीजं। 
श्रीशक्तिः। 
क्लीं कीलकम् । 
गुरुपीडोपशमनार्थं जपे विनियोगः।।

अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् । 
अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ।।१।।

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः ।।२।।

जिह्वां पातु सुराचार्यो नासां मे वेदपारग्:। 
मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः ।।३।।

भुजावांगिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ।।४।।

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रद्:।
कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः ।।५।।

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ।।६।।

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः ।
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।।७।।

।।इति श्रीब्रह्मयामलोक्तं बृहस्पतिकवचं संपूर्णम्।।