Search This Blog

Showing posts with label Mangal Kavach. Show all posts
Showing posts with label Mangal Kavach. Show all posts

Sunday, September 27, 2020

श्री मंगल कवचम्

 अथ मंगल कवचम् 

अस्य श्री मंगलकवच स्तोत्रमंत्रस्य ।

कश्यप ऋषिः ।

अनुष्टुप् छन्दः । 

अङ्गारको देवता ।

अं बीजं ।

भौम पीडापरिहारार्थं जपे विनियोगः ।।


रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।

धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ।।१।।


अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।

श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ।।२।।


नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।

भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ।।३।।


वक्षः पातु वरांगश्च हृदयं पातु लोहितः ।

कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ।।४।।


जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा ।

सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ।।५।।


या इदं कवचं दिव्यं सर्वशत्रु निवारणम् ।

भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ।।६।। 


सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम्  ।

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ।

रोगबंधविमोक्षं च सत्यमेतन्न संशयः ।।७।।


।।इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं।।