अथ श्री बगलामुखी माता कवचम्
शिरो मेंपातु ॐ ह्रीं ऐं श्रीं क्लीं पातुललाटकम ।
सम्बोधनपदं पातु नेत्रे श्रीबगलानने ।।१।।
श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ।।२।।
देहिद्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम ।
कण्ठदेशं मन: पातु वाञ्छितं बाहुमूलकम् ।।३।।
कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।
मायायुक्ता तथा स्वाहा, हृदयं पातु सर्वदा ।।४।।
अष्टाधिक चत्वारिंशदण्डाढया बगलामुखी ।
रक्षां करोतु सर्वत्र गृहेरण्ये सदा मम ।।५।।
ब्रह्मास्त्राख्यो मनु: पातु सर्वांगे सर्वसन्धिषु ।
मन्त्रराज: सदा रक्षां करोतु मम सर्वदा ।।६।।
ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलावतु ।
मुखिवर्णद्वयं पातु लिंग मे मुष्क-युग्मकम् ।।७।।
जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
वाचं मुखं तथा पादं षड्वर्णा: परमेश्वरी ।।८।।
जंघायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ।।९।।
जिह्वावर्णद्वयं पातु गुल्फौ मे कीलयेति च ।
पादोध्र्व सर्वदा पातु बुद्धिं पादतले मम ।।१०।।
विनाशयपदं पातु पादांगुल्योर्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ।।११।।
सर्वांगं प्रणव: पातु स्वाहा रोमाणि मेवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ।।१२।।
माहेशी दक्षिणे पातु चामुण्डा राक्षसेवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ।।१३।।
वाराही चोत्तरे पातु नारसिंही शिवेवतु ।
ऊर्ध्व पातु महालक्ष्मी: पाताले शारदावतु ।।१४।।
इत्यष्टौ शक्तय: पान्तु सायुधाश्च सवाहना: ।
राजद्वारे महादुर्गे पातु मां गणनायक: ।।१५।।
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसना: सर्वाभरणभूषिता: ।।१६।।
योगिन्य: सर्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितं देवि कवचं परमाद्भुतम् ।।१७।।