अथ श्री बृहस्पति स्तोत्रम्
गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।।१।।
सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः।
दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।।२।।
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।
तारापतिश्च अङ्गिरसो वेद वैद्य पितामहः।।३।।
भक्तया बृहस्पतिस्मृत्वा नामानि एतानि यः पठेत्।
आरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः।।४।।
जीवेद् वर्षशतं मर्त्यः पापं नश्यति तत्क्षणात्।
यः पूजयेद् गुरु दिने पीतगन्धा अक्षताम्बरैः।।५।।
पुष्पदीपोपहारैश्च पूजयित्वा वरं बृहस्पतिम्।
ब्राह्मणान् भोजयित्वा च पीडा शान्ति:भवेद्गुरोः।।६।।
।।इति श्री स्कन्दपुराणे बृहस्पतिः स्तोत्रम्।।