Search This Blog

Showing posts with label Shree Shani Kavach. Show all posts
Showing posts with label Shree Shani Kavach. Show all posts

Sunday, September 27, 2020

श्री शनि कवचम्

विनियोग : अस्य श्रीशनैश्चर कवच स्तोत्रमंत्रस्य । 

कश्यप ऋषि: । 

अनुष्टुप् छन्द:। 

शनैश्चरो देवता । 

शं बीजं ।

श्रीं शक्ति: । 

शूं कीलकम् । 

शनैश्चर प्रीत्यर्थे पाठे विनियोग: ।।  


नीलाम्बरो नीलवपु: किरीटी गृध्रस्थितत्रासकरो धनुष्मान् ।

चतुर्भुज: सूर्यसुत: प्रसन्न: सदा मम स्याद्वरद: प्रशान्त:।।१।।


श्रृणुध्वमृषय: सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ।।२।।


कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ।।३।।


ॐ श्री शनैश्चर: शिर पातु भालं मे सूर्यनंदन: ।

नेत्रे छायात्मज: पातु कर्णो यमानुज: ।।४।।


नासां वैवस्वत: पातु मुखं मे भास्कर: सदा ।

स्निग्धकण्ठश्च मे कण्ठ भुजौ पातु महाभुज: ।।५।।


स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद: ।

वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्थता ।।६।।


नाभिं गृहपति: पातु मन्द: पातु कटिं तथा ।

ऊरू ममाऽन्तक: पातु यमो जानुयुगं तथा ।।७।।


पदौ मन्दगति: पातु सर्वांग पातु पिप्पल: ।

अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दन: ।।८।।


इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य य: ।

न तस्य जायते पीडा प्रीतो भवन्ति सूर्यज: ।।९।।


व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा ।

कलत्रस्थो गतोवाऽपि सुप्रीतस्तु सदा शनि: ।।११।।


अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ।।११।।


इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।

जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभु: ।।१२।।


।। इति श्री शनैश्चर कवचं संपूर्णम् ।।

  श्री शनि देव चरणार्पणमस्तु