Search This Blog

Showing posts with label Shree Shukra Kavach. Show all posts
Showing posts with label Shree Shukra Kavach. Show all posts

Sunday, September 27, 2020

श्री शुक्र कवचम्

अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य ।
भारद्वाज ऋषिः ।
अनुष्टुप् छन्दः । 
शुक्रो देवता  । 
शुं बीजं । 
शुक्रप्रीत्यर्थं जपे विनियोगः ।।

मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम्  ।
समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ।।१।।

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः  ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः ।।२।।

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः  ।
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ।।३।।

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः  ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रिय:।।४।।

कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः  ।
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ।।५।।

गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः  ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ।।६।।

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः  । 
न तस्य जायते पीडा भार्गवस्य प्रसादतः ।।७।।

।।इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं।।