Search This Blog

Showing posts with label Shree Suktam. Show all posts
Showing posts with label Shree Suktam. Show all posts

Thursday, September 24, 2020

श्री सूक्तम्

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । 
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।१।।

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । 
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।।२।।

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । 
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ।।३।।

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । 
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।।४।।

प्रभासां यशसा लोके देवजुष्टामुदाराम् । 
पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।।५।।

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । 
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ।।६।।

उपैतु मां देवसखः कीर्तिश्च मणिना सह । 
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।७।।

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । 
अभूतिमसमृद्धिं च सर्वां निर्णुद गृहात् ।।८।।

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । 
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।९।।

मनसः काममाकूतिं वाचः सत्यमशीमहि । 
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ।।१०।।

कर्दमेन प्रजाभूता सम्भव कर्दम । 
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ।।११।।

आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे । 
नि च देवी मातरं श्रियं वासय कुले ।।१२।।

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । 
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।१३।।

आर्द्रां यः करिणीं यष्टिं सुवर्णां  हेममालिनीम् । 
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।१४।।

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्  । 
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ।।१५।।

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । 
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ।।१६।।

पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे । 
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ।।१७।।

अश्वदायि गोदायि धनदायि महाधने । 
धनं मे जुषताम् देवी सर्वकामांश्च देहि मे ।।१८।।

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् । 
प्रजानां भवसिमाता आयुष्मन्तं करोतु माम् ।।१९।।

धनम् ग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । 
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ।।२०।।

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । 
सोमं धनस्य सोमिनो मह्यं ददातु ।।२१।।

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः । 
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ।।२२।।

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । 
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ।।२३।।

पद्मप्रिये पद्म पद्महस्ते पद्मालये पद्मदलायताक्षि । 
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ।।२४।।

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । 
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।।२५।।

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः । 
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ।।२६।।

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् । 
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ।।२७।।

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् । 
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ।।२८।।

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती । 
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ।।२९।।

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । 
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ।।३०।।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके । 
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ।।३१।।

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । 
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ।।३२।।

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । 
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ।।३३।।

महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि । 
तन्नो लक्ष्मीः प्रचोदयात् ।।३४।।

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते । 
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।।३५।।

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । 
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ।।३६।।

य एवं वेद ।
ॐ महादेव्यै च विष्णुपत्नीं च धीमहि । 
तन्नो लक्ष्मीः प्रचोदयात्।।
 
ॐ शान्तिः शान्तिः शान्तिः ।।३७।।