Search This Blog

Showing posts with label Shree Surya Atharvashirsham. Show all posts
Showing posts with label Shree Surya Atharvashirsham. Show all posts

Friday, June 28, 2024

श्री सूर्याथर्वशिर्षम

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ 

स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥


ॐ शान्तिः! शान्तिः!! शान्तिः!!!


हरिः ॐ॥ अथ सूर्यारथर्वाङ्गिरसं व्याख्यास्यामः । 

ब्रह्मा ऋषिः । 

गायत्री छन्दः । 

आदित्यो देवता । 

हंस: सोऽहंमग्निनारायणयुक्तं बीजम् । 

ह्ल्लेखा शक्ति: । 

वियदादिसर्गसंयुक्तं कीलकम् । 

चतुर्विधपुरुषार्थसिद्धयर्थे विनियोगः । 

षट्स्वरारूढेन बीजेन षडङ्ग रक्ताम्बुजसंस्थितम् । 

सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ॐ ब्राह्मणः ।


ॐ भूर्भुवः स्वः । 

ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । 

धियो यो नः प्रचोदयात्। 


सूर्य आत्मा जगतस्तस्थुषश्च । 

सूर्याद्वै खल्विमानि भूतानि जायन्ते । 

सूर्याद्यज्ञःपर्जन्योऽन्नमात्मा । 

नमस्त आदित्य त्वमेव केवलं कर्म कर्ताऽसि । 

त्वमेव प्रत्यक्षं ब्रह्मासि । 

त्वमेव प्रत्यक्षं विष्णुरसि । 

त्वमेव प्रत्यक्षं रुद्रोऽसि । 

त्वमेव प्रत्यक्षमृगसि । 

त्वमेव प्रत्यक्षं यजुरसि । 

त्वमेव प्रत्यक्षं सामासि । 

त्वमेव प्रत्यक्षमथर्वासि । 

त्वमेव सर्वं छन्दोऽसि । 

आदित्याद्वायुर्जायते । 

आदित्याद् भूमिर्जायते । 

आदित्यादापो जायन्ते । 

आदित्याज्योतिर्जायते । 

आदित्याद् व्योम दिशो जायन्ते । 

आदित्याद्देवा जायन्ते । 

आदित्याद्वेदा जायन्ते । 

आदित्यो वा एष एतन्मण्डलं तपति । 

असावादित्यो ब्रह्म । 

आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकारा । 

आदित्यो वै व्यानः समानोदानोपानः प्राणः । 

आदित्यो वै श्रोत्रंत्वक्चक्षुरसघ्राणा: । 

आदित्यो वै वाक्पाणिपादपायूपस्थाः । 

आदित्यो वै शब्दस्पर्शरूपरसगन्धाः। 

आदित्यो वै वचनादानागमनविसर्गानन्दाः । 

आनन्दमयो ज्ञानमयो विज्ञानमयो आदित्य: । 

नमो मित्राय भानवे मृत्योर्मां पाहि भ्राजिष्णवे विश्वहेतवे नमः । 

सूर्याद् भवन्ति भूतानि सूर्येण पालितानि तु । 

सुर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । 

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः। 

चक्षुर्धाता दधातु न: । 

आदित्याय विद्महे सहस्रकिरणाय धीमहि । 

तन्नः सूर्यः प्रचोदयात् । 

सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । 

सविता नः सुवतुसर्वतातिं सविता नो रासतां दीर्घमायुः । 


ओमित्येकाक्षरं ब्रह्म घृणिरिति द्वै अक्षरे । 

सूर्य इत्यक्षरद्वयम् । 

आदित्य इति त्रीण्यक्षराणि । 

एतस्यैव सूर्यस्याष्टाक्षरो मनुः ।


यः सदाहरहर्जपति स वै ब्राह्मणो भवति । 

स वै ब्राह्मणो भवति । 

सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । 

अलक्ष्मीर्नश्यति । 

अभक्ष्यभक्षणात् पूतो भवति । 

अगम्यागमनात्पूतो भवति । 

पतितसम्भाषणात्पूतो भवति । 

असत्सम्भाषणात्पूतो भवति । 

मध्याह्न सूर्याभि मुखः पठेत् । 

सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते । 

सैषां सावित्री विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् । 

य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । 

पशून् विन्दति । 

वेदार्थांल्लभते । 

त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । 

यो हस्तादित्ये जपति स महामृत्युं तरति । 

स महामृत्युं तरति । 

य एवं वेद ॥ इत्युपनियत् ॥ 


ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ 

स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ 


ॐ शान्तिः! शान्तिः!! शान्तिः!!! 

श्री सुर्य देव चरणार्पणमस्तु

श्री शुभं भवतु

---------------------------------------------------------------------------


 सूर्यारथर्वाङ्गिरसं वाङ्गमय अमृतमयम् अथर्वशीर्ष