अथ श्री सूर्य स्तोत्रम्
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोक प्रकाशकः श्री माँल्लोक चक्षुर्मुहेश्वरः।।१।।
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः।।२।।
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
एकविंशतिरित्येष स्तव इष्टः सदा रवे।।३।।