Search This Blog

Friday, June 28, 2024

श्री सूर्याथर्वशिर्षम

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ 

स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥


ॐ शान्तिः! शान्तिः!! शान्तिः!!!


हरिः ॐ॥ अथ सूर्यारथर्वाङ्गिरसं व्याख्यास्यामः । 

ब्रह्मा ऋषिः । 

गायत्री छन्दः । 

आदित्यो देवता । 

हंस: सोऽहंमग्निनारायणयुक्तं बीजम् । 

ह्ल्लेखा शक्ति: । 

वियदादिसर्गसंयुक्तं कीलकम् । 

चतुर्विधपुरुषार्थसिद्धयर्थे विनियोगः । 

षट्स्वरारूढेन बीजेन षडङ्ग रक्ताम्बुजसंस्थितम् । 

सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ॐ ब्राह्मणः ।


ॐ भूर्भुवः स्वः । 

ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । 

धियो यो नः प्रचोदयात्। 


सूर्य आत्मा जगतस्तस्थुषश्च । 

सूर्याद्वै खल्विमानि भूतानि जायन्ते । 

सूर्याद्यज्ञःपर्जन्योऽन्नमात्मा । 

नमस्त आदित्य त्वमेव केवलं कर्म कर्ताऽसि । 

त्वमेव प्रत्यक्षं ब्रह्मासि । 

त्वमेव प्रत्यक्षं विष्णुरसि । 

त्वमेव प्रत्यक्षं रुद्रोऽसि । 

त्वमेव प्रत्यक्षमृगसि । 

त्वमेव प्रत्यक्षं यजुरसि । 

त्वमेव प्रत्यक्षं सामासि । 

त्वमेव प्रत्यक्षमथर्वासि । 

त्वमेव सर्वं छन्दोऽसि । 

आदित्याद्वायुर्जायते । 

आदित्याद् भूमिर्जायते । 

आदित्यादापो जायन्ते । 

आदित्याज्योतिर्जायते । 

आदित्याद् व्योम दिशो जायन्ते । 

आदित्याद्देवा जायन्ते । 

आदित्याद्वेदा जायन्ते । 

आदित्यो वा एष एतन्मण्डलं तपति । 

असावादित्यो ब्रह्म । 

आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकारा । 

आदित्यो वै व्यानः समानोदानोपानः प्राणः । 

आदित्यो वै श्रोत्रंत्वक्चक्षुरसघ्राणा: । 

आदित्यो वै वाक्पाणिपादपायूपस्थाः । 

आदित्यो वै शब्दस्पर्शरूपरसगन्धाः। 

आदित्यो वै वचनादानागमनविसर्गानन्दाः । 

आनन्दमयो ज्ञानमयो विज्ञानमयो आदित्य: । 

नमो मित्राय भानवे मृत्योर्मां पाहि भ्राजिष्णवे विश्वहेतवे नमः । 

सूर्याद् भवन्ति भूतानि सूर्येण पालितानि तु । 

सुर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । 

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः। 

चक्षुर्धाता दधातु न: । 

आदित्याय विद्महे सहस्रकिरणाय धीमहि । 

तन्नः सूर्यः प्रचोदयात् । 

सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । 

सविता नः सुवतुसर्वतातिं सविता नो रासतां दीर्घमायुः । 


ओमित्येकाक्षरं ब्रह्म घृणिरिति द्वै अक्षरे । 

सूर्य इत्यक्षरद्वयम् । 

आदित्य इति त्रीण्यक्षराणि । 

एतस्यैव सूर्यस्याष्टाक्षरो मनुः ।


यः सदाहरहर्जपति स वै ब्राह्मणो भवति । 

स वै ब्राह्मणो भवति । 

सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । 

अलक्ष्मीर्नश्यति । 

अभक्ष्यभक्षणात् पूतो भवति । 

अगम्यागमनात्पूतो भवति । 

पतितसम्भाषणात्पूतो भवति । 

असत्सम्भाषणात्पूतो भवति । 

मध्याह्न सूर्याभि मुखः पठेत् । 

सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते । 

सैषां सावित्री विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् । 

य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । 

पशून् विन्दति । 

वेदार्थांल्लभते । 

त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । 

यो हस्तादित्ये जपति स महामृत्युं तरति । 

स महामृत्युं तरति । 

य एवं वेद ॥ इत्युपनियत् ॥ 


ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ 

स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ 


ॐ शान्तिः! शान्तिः!! शान्तिः!!! 

श्री सुर्य देव चरणार्पणमस्तु

श्री शुभं भवतु

---------------------------------------------------------------------------


 सूर्यारथर्वाङ्गिरसं वाङ्गमय अमृतमयम् अथर्वशीर्ष

श्री देव्याथर्वशीर्षम्

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।   

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः॥ 

स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः! शान्तिः!! शान्तिः!!!


ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ।।१।।

साब्रवीत्- अहं ब्रह्म्स्वरुपिणी । 
मत्तः प्रकृतिपुरुषात्मकं जगत् । 
शून्यं चाशून्यं च ।।२।।

अहमानन्दानानन्दौ । 
अहं विज्ञानाविज्ञाने । 
अहं ब्रह्माब्रह्मणी वेदितव्ये । 
अहं पञ्च्भूतान्यपञ्चभूतानि । 
अहमखिलं जगत् ।।३।।

वेदोऽहमवेदोऽहम् । 
विद्याहमविद्याहम् । 
अजाहमनजाहम् । 
अधश्चोर्ध्वं च तिर्यक्चाहम् ।।४।।

अहं रुद्रेभिर्वसुभिश्चरामि । 
अहमादित्यैरुत विश्वदेवैः । 
अहं मित्रावरुणावुभौ बिभर्मि । 
अहमिन्द्राग्नी अहमश्विनावुभौ ।।५।।

अहं सोमं त्वष्टारं पूषणं भगं दधामि । 
अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ।।६।।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । 
अहं राष्ट्री सङ्ग्मनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । 
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । 
य एवं वेद । 
स दैवीं संपदमाप्नोति।।७।।

ते देवा अब्रुवन्- नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।।८।।

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफ़लेषु जुष्टाम् ।
दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नायित्र्यै ते नमः ।।९।।

देवीं वाचमजनयन्त  देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ।।१०।।

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्  ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ।।११।।

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ।।१२।।

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वाजायन्त भद्रा अमृतबन्धवः ।।१३।।

कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभमिन्द्रः ।
पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम्  ।।१४।।

एषाऽऽत्मशक्तिः। 
एषा विश्वमोहिनी । 
पाशाङ्कुशधनुर्बाणधरा ।
एषा श्रीमहाविद्या । 
 एवं वेद स शोकं तरति ।।१५।।

नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः ।।१६।।

सैषाष्टाै वसवः । 
सैषैकादश रुद्राः । 
सैषा द्वादशादित्याः । 
सैषा विश्वेदेवाः सोमपा असोमपाश्च । 
सैषा यातुधाना दैव्या देवताम् रक्षांसि पिशाचा यक्षाः सिद्धाः । 
सैषा सत्त्वरजस्तमांसि ।  
सैषा ब्रह्मविष्णुरुद्ररुपिणी । 
सैषा प्रजापतीन्द्रमनवः ।  
सैषा ग्रहनक्षत्रज्योतींषि । 
कलाकाष्ठादिकालरूपिणी । 
तामहं प्रणौमि नित्यम् ।।
पपापहारिणीं देवीं भक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ।।१७।।

वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ।।१८।।

एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ।।१९।।

वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् ।
सूर्योऽवामश्रोत्रबिन्दुसन्युक्तष्टात्तृतीयकः ।
नारायणेन सम्मिश्रो वायुश्चाधरयुक् ततः ।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ।।२०।।

ह्रत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । 
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । 
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ।।२१।।

नमामि त्वां महादेवीं महाभयविनाशिनीम् । 
महादुर्गप्रशमनींमहाकारुन्यरूपिणीम् ।।२२।।

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । 
यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । 
यस्या लक्ष्यं नोपलभ्यते तस्मादुच्यते अलक्ष्या । 
यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । 
एकैव सर्वत्र वर्तते तस्मादुच्यते एका ।
एकैव विश्वरूपिणी तस्मादुच्यते नैका । 
अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ।।२३।।

मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।।२४।।

तां दुर्गा दुर्गमां देवीं दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ।।२५।।

इदमर्थर्वशीर्षं योऽधीते स पन्चाथर्वशीर्षजपफलमाप्नोति । 
इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति-शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः।
दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ।।२६।।

सायमधीयानो दिवसकृतं पापं नाश्यति । 
प्रातरधीयानो रात्रिकृतं पापं नाश्यति ।
सायं प्रातः प्रयुञ्जानो अपापो भवति । 
निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । 
नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति ।
स महामृत्युं तरति य एवं वेद ।। 
त्युपनिषत् ।।

।। इति श्री देव्याथर्वशीर्षम् संपूर्णम् ।।

श्री दैव्याचरणार्पणमस्तु

श्री शुभं भवतु

श्री मंगल चंडिका मंत्र

।। ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ऐं क्रूं फट् स्वाहाः ।।

Sunday, February 6, 2022

श्री गणेश अष्टकम्

चतुःषष्टिकोट्याख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम् ।
कठाभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि ॥ १॥

स्वनाथं प्रधानं महाविघ्ननाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम् ।
प्रभु दक्षिणास्यस्य विद्याप्रदं त्वां कविं बुद्धिनाथं कवीनां नमामि ॥ २ ॥

विभो व्यासशिष्यादिविद्याविशिष्टप्रियानेकविद्याप्रदातारमाद्यम् ।
महाशाक्तदीक्षागुरुं श्रेष्ठदं त्वां कविं बुद्धिनाथं कवीनां नमामि ॥ ३ ॥

विधात्रे त्रयीमुख्यवेदांश्च योगं महाविष्णवे चागमाञ् शङ्कराय ।
दिशन्तं च सूर्याय विद्यारहस्यं कविं बुद्धिनाथं कवीनां नमामि ॥ ४ ॥

महाबुद्धिपुत्राय चैकं पुराणं दिशन्तं गजास्यस्य माहात्म्ययुक्तम् ।
निजज्ञानशक्त्या समेतं पुराणं कविं बुद्धिनाथं कवीनां नमामि ॥ ५ ॥

त्रयीशीर्षसारं रुचानेकमारं रमाबुद्धिदारं परं ब्रह्मपारम् ।
सुरस्तोमकायं गणौघाधिनाथं कविं बुद्धिनाथं कवीनां नमामि ॥ ६ ॥

चिदानन्दरूपं मुनिध्येयरूपं गुणातीतमीशं सुरेशं गणेशम् ।
धरानन्दलोकादिवासप्रियं त्वां कविं बुद्धिनाथं कवीनां नमामि ॥ ७ ॥

अनेकप्रतारं सुरक्ताब्जहारं परं निर्गुणं विश्वसद्ब्रह्मरूपम् ।
महावाक्यसन्दोहतात्पर्यमूर्तिं कविं बुद्धिनाथं कवीनां नमामि ॥ ८ ॥

इदं ये तु कव्यष्टकं भक्तियुक्तात्रिसन्ध्यं पठन्ते गजास्यं स्मरन्तः ।
कवित्वं सुवाक्यार्थमत्यद्भुतं ते लभन्ते प्रसादाद् गणेशस्य मुक्तिम् ॥ ९ ॥

 ॥ इति वाल्मीकिकृतं गणेश अष्टकम समाप्तम् ॥

श्री गणेश चरणार्पणमस्तु

श्री शुभम् भवतु

श्री महालक्ष्यै अष्टकम्

अथ श्री इंद्रकृत श्री महालक्ष्मी अष्टक

श्री गणेशाय नमः

नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥

नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥

सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥

सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥

आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥

स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥

पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥

श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥

महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥

एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥

त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥ 

।। इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ।।

श्री महालक्ष्म्यै चरणार्पणमस्तु

श्री शुभं भवतु

Monday, January 24, 2022

।। शिव पंचाक्षर स्तोत्र ।।

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै काराय नमः शिवाय।।१‌।

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै म: काराय नमः शिवाय।।२।।

शिवाय गौरीवदनाब्जबृंदा
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शि काराय नमः शिवाय।।३।‌

वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्र देवार्चिता शेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै वा काराय नमः शिवाय।।४।।

यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै काराय नमः शिवाय।।५।।

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
शिवलोकमावाप्नोति शिवेन सह मोदते।।

नमः शिवाय

श्री शिव पंचाक्षर स्तोत्र संपुर्णम्
श्री भगवान शिवार्पणमस्तु
श्री शुभं भवतु

।।‌ श्री कीलक स्तोत्र ।।

ॐ अस्य श्री कीलक स्तोत्र महामंत्रस्य। 
शिव ऋषि:। 
अनुष्टुप् छन्द:। 
महासरस्वती देवता। 
मंत्रोदित देव्यो बीजम्।
नवार्णो मंत्रशक्ति। 
श्री सप्तशती मंत्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोग:।
ॐ नमश्चण्डिकायै 
मार्कण्डेय उवाच-
 
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे।।1।।

सर्वमेतद्विजानीयान्मंत्राणामभिकीलकम्।
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः।।2।।
 
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवीं स्तोत्रमात्रेण सिद्धयति।।3।।
 
न मंत्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्।।4।।
 
समग्राण्यपि सिद्धयन्ति लोकशङ्कामिमां हरः।
कृत्वा निमंत्रयामास सर्वमेवमिदं शुभम्।।5।।
 
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
समाप्तिर्न च पुण्यस्य तां यथावन्निमंत्रणाम्।।6।।
 
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः।।7।।
 
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थं रूपेण कीलेन महादेवेन कीलितम्।।8।।
 
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः।।9।।
 
न चैवाप्यटतस्तस्य भयं क्वापीह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्।।10।।
 
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः।।11।।
 
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्।।12।।
 
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्।।13।।
 
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः।।14।।
 
।।इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम्।।

Wednesday, November 18, 2020

श्री महालक्ष्मी कवचम्

अथ श्री महालक्ष्मी कवचम्

नारायण उवाच 

सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्र्च बृहती देवी पद्मालया सव्यम् ॥ १ ॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ २ ॥

ॐ हृीं कमलवासिन्यै स्वाहा मे पातु मे मम मस्तकम् ।
श्रीं मे पातु मम कपालं तथां पातु मम लोचने श्रीं श्रियै नमः ॥ ३ ॥

ॐ श्रीं श्रियै स्वाहेति पातु मम कर्णयुग्मं सदावतु ।
ॐ श्रीं हृीं क्लीं महालक्ष्म्यै स्वाहा पातु मे मम नासिकाम् ॥ ४ ॥

ॐ श्रीं पद्मालयायै च स्वाहा पातु मम दन्तं सदावतु ।
ॐ श्रीं कृष्णप्रियायै पातु मम दन्तरन्ध्रं सदावतु ॥ ५ ॥

ॐ श्रीं नारायणेशायै पातु मम कण्ठं सदावतु ।
ॐ श्रीं केशवकान्तायै पातु मम स्कन्धं सदावतु ॥ ६ ॥

ॐ श्रीं पद्मनिवासिन्यै स्वाहा पातु मम नाभिं सदावतु ।
ॐ हृीं श्रीं संसारमात्रे पातु मम वक्षः सदावतु ॥ ७ ॥

ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पातु मम पृष्ठं सदावतु ।
ॐ हृीं श्रीं श्रियै स्वाहा पातु मम हस्तौ सदावतु ॥ ८ ॥

ॐ श्रीं निवासकान्तायै पातु मम पादौ सदावतु ।
ॐ हृीं श्रीं क्लीं श्रियै स्वाहा पातु मम सर्वाङ्गं मे सदावतु ॥ ९ ॥

मम प्राच्यां पातु महालक्ष्मीराग्नेय्यां पातु मम कमलालया ।
पद्मा मां पातु मम दक्षिणे पातु मम नैर्ऋत्यां श्रीहरिप्रिया ॥ १० ॥

पद्मालया पश्र्चिमे मां पातु वायव्यां पातु मम श्रीः स्वयम् ।
उत्तरे कमला पातु मम ऐशान्यां सिन्धुकन्यका पातु मे मम॥ ११ ॥

मम नारायणेशी पातूर्ध्वमधो पातु मम विष्णुप्रियावतु ।
संततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ १२ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्र्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १३ ॥
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ।
यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ १४ ॥

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान् प्रतिजन्मनि ॥ १५ ॥

अस्ति लक्ष्मीर्गृहे तस्य निश्र्चला शतपूरुषम् ।
देवेन्द्रैश्र्चासुरेन्द्रैश्र्च सोऽवध्यो निश्र्चितं भवेत् ॥ १६ ॥

स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः । 
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ १७ ॥

यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत् ॥ १८ ॥

इदं कवचमज्ञत्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसंख्यं प्रजप्तोऽसि न मन्त्रः सिद्धिदायकः ॥ १९ ॥

॥ इति श्री महालक्ष्मीकवचं सम्पूर्णम् ॥ 

श्री महालक्ष्मी चरणार्पणमस्तु 

श्री शुभं भवतु

श्री महालक्ष्मी मंत्र

॥ ॐ श्रीं महालक्ष्म्यै च विद्महे सर्वलक्ष्म्यै च धीमहि । तन्नो महालक्ष्म्यै प्रचोदयात् ॥

श्री मंगल चंडिका मंत्र

।। ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ऐं क्रूं फट् स्वाहाः ।।

श्री लक्ष्मी कवचम्

अथ श्री लक्ष्मी कवचम् 

नारद उवाच

आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ ।
महालक्ष्म्याश्र्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १ ॥

नारायण उवाच 

पुष्करे च तपस्तप्त्वा विरराम सुरेश्र्वरः ।
आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥ २ ॥

तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ।
स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३ ॥

वरं दत्वा हृषीकेशः प्रवक्तुमुपचक्रमे । 
हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४ ॥

श्रीमधुसुदन उवाच 

गृहाण कवचं शक्र सर्वदुःखविनाशनम् ।
परमैश्वर्यजनकं सर्वशत्रुविमर्दनम् ॥ ५ ॥

ब्रह्मणे च पुरा दत्तं संसारे च जलप्लुते ।
यद् धृत्वा जगतां श्रेष्ठः सर्वैश्र्वर्ययुतो विधिः ॥ ६ ॥

बभूवुर्मनवः सर्वे सर्वैश्र्वर्ययुता यतः ।
सर्वैश्र्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७ ॥

पङ्क्तिश्छश्र्च सा देवी स्वयं पद्मालया सुर ।
सिद्धैश्र्वर्यजपेष्वेव विनियोगः प्रकीर्तितः ॥ ८ ॥

यद् धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् ।
मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥ ९ ॥     

नासिकां पातु मे लक्ष्मीः कमला पातु लोचनम् । 
केशान् केशवकान्ता च कपालं कमलालया ॥ १० ॥

जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा ।
ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदावतु ॥ ११ ॥

ॐ श्रीं पद्मालयायै स्वाहा वक्षः सदावतु ।
पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ १२ ॥

ॐ हृीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम् ।
ॐ हृीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १३ ॥

ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा ।
ॐ हृीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥ १४ ॥

इति ते कथितं वत्स सर्वसम्पत्करं परम् ।
सर्वैश्र्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १५ ॥

गुरुम् भ्यर्च्य विधिवत् कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १६ ॥    

महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ।
तस्य छायेव सततं सा च जन्मनि जन्मनि ॥ १७ ॥

इदं कवचमज्ञात्वा भजेल्लक्ष्मीं सुमन्दधीः ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १८ ॥

॥ इति श्रीब्रह्मवैवर्ते इन्द्रं प्रति हरिणोपदिष्टं लक्ष्मीकवचं सम्पूर्णम् ॥ 

श्री महालक्ष्मी मंत्र

॥ ॐ श्रीं महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥

श्री मंगल चंडिका मंत्र

।। ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ऐं क्रूं फट् स्वाहाः ।।


Monday, November 9, 2020

श्री भुवनेश्वरी स्तोत्रम्

अष्टसिद्धिरालक्ष्मी अरुणाबहुरुपिणि

त्रिशूल भुक्कुरादेवी पाशाकुशविदारिणी ।।१।।


खड्गखेटधरादेवी घण्टनि चक्रधारिणी

षोडशी त्रिपुरादेवी त्रिरेखा परमेश्वरी ।।२।।


कौमारी पिंगलाचैव वारीनी जगामोहिनी

दुर्गदेवी त्रिगंधाच नमस्ते शिवनायक ।।३।।


एवंचाष्टशतनामंच श्लाके त्रिनयभावितं

भक्तये पठेन्नित्यं दारिद्रयं नास्ति निश्चितं ।।४।।


एकः काले पठेन्नित्यं धनधान्य समाकुलं

द्विकालेयः पठेन्नित्यं सर्व शत्रुविनाशानं ।।५।।


त्रिकालेयः पठेन्नित्यं सर्व रोग हरम परं

चतुःकाले पठेन्नित्यं प्रसन्नं भुवनेश्वरी ।।६।।


।। इति श्री रुद्रयावले ईश्वरपार्वति संवादे श्री भुवनेश्वरी स्तोत्र संपूर्णं ।।

श्री मीनाक्षी सुन्दरेश्वरस्तोत्रम्

सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने

सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।

अपर्णया विहारिणे फणाधरेन्द्रधारिणे

सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ १ ॥


सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलये

पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।

भुजङ्गराजकुण्डलाय पुण्यशालिबन्धवे

सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ २ ॥


चतुर्मुखाननारविन्दवेदगीतमूर्तये

चतुर्भुजानुजाशरीरशोभमानमूर्तये ।

चतुर्विधार्थदानशौण्डताण्डवस्वरूपिने

सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ३ ॥


शरन्निशाकरप्रकाशमन्दहासमञ्जुला-

धरप्रवालभासमानवक्त्रमण्डलश्रिये ।

करस्फुरत्कपालमुक्तविष्णुरक्तपायिने

सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ४ ॥


सहस्रपुण्डरीकपूजनैकशून्यदर्शना

सहस्वनेत्रकल्पितार्चनाच्युताय भक्तितः ।

सहस्रभानुमण्डलप्रकाशचक्रदायिने

सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ५ ॥


रसारथाय रम्यपत्रभृद्रथाङ्गपाणये

रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।

स्वसारथीकृताजनुन्नवेदरूपवाजिने

सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ ६ ॥


अतिप्रगल्भवीरभद्रसिंहनादगर्जित

श्रुतिप्रभीतदक्षयागभोगिनाकसद्मनाम् ।

गतिप्रदाय गर्जिताखिलप्रपञ्चसाक्षिणे

सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥ ७ ॥


मृकण्डुसूनुरक्षणावधूतदण्डपाणये

सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशवे ।

अखण्डभोगसम्पदर्थिलोकभावितात्मने

सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥ ८ ॥


मधुरिपुविधिशक्रमुख्यदेवैरपि 

नियमार्चितपादपङ्कजाय ।

कनकगिरिशरासनाय तुभ्यं 

रजतसभापतये नमः शिवाय ॥ ९ ॥


हालास्यनाथाय महेश्वराय 

हालाहलालङ्कृतकन्धराय ।

मीनेक्षनायाः पतये शिवाय 

नमो नमः सुन्दरताण्डवाय ॥ १० ॥


त्वया कृतमिदं स्तोत्रं यः पठेद्भक्तिसंयुतः ।

तस्याऽऽयुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥


|| इति श्री मीनाक्षी सुन्दरेश्वरस्तोत्रम् संपूर्णम् ||

Sunday, October 25, 2020

श्री धूमावती कवचम्

अथ धूमावती कवचम्

श्रीपार्वत्युवाच:

धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १ ॥

श्रीभैरव उवाच:

श‍ृणुदेवि परं गुह्यं न प्रकाश्यं कलौयुगे ।
कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥ २ ॥

ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।
योगिनोभवछत्रुघ्ना यस्याध्यान प्रभावतः ॥ ३ ॥

अस्य श्रीधूमावतीकवचस्य । 
पिप्पलाद ऋषिः । 
अनुष्टुप्छन्दः । 
श्री धूमावती देवता ।
धूं बीजम् । 
स्वाहाशक्तिः । 
धूमावती कीलकम् । 
शत्रुहनने पाठे विनियोगः ।।

ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।
धूमानेत्रयुगं पातु वती कर्णौसदावतु ॥ ४ ॥

दीर्घातूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
शूर्पहस्ता पातु गुह्यं रूक्षारक्षतु जानुनी ॥ ५ ॥

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
सर्वं विद्यावतु कष्टं विवर्णा बाहुयुग्मकम् ॥ ६ ॥

चञ्चला हृदयं पातु दुष्टा पार्श्वं सदावतु ।
धूतहस्ता सदा पातु पादौ पातु भयावहा ॥ ७ ॥

प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८ ॥

सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।
इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥ ९ ॥

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १० ॥

॥ इति भैरवी भैरव संवादे धूमावती तत्त्वे धूमावती कवचं सम्पूर्णम् ॥

Tuesday, October 13, 2020

श्री सिद्ध कुञ्जिका स्तोत्रम्

ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य । 
सदाशिव ऋषिः । 
अनुष्टुप् छन्दः । 
श्री त्रिगुणात्मिका देवता । 
ॐ ऐं बीजं । 
ॐ ह्रीं शक्तिः । 
ॐ क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।।

शिव उवाच

शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ।।१।।

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ।।२।।

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ।।३।।

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ।।४।। 

अथ मन्त्रः

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ।।५।। 

इति मंत्रः 

श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा । 
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं प्रज्वल हं सं लं क्षं फट् स्वाहा । 

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ।।६।।

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ।।७।।

ऐंङ्कारी सृष्टिरूपायै ह्रींङ्कारी प्रतिपालिका ।
क्लींङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ।।८।।

चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ।।९।। 

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ।।१०।। 

हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी । 
ज्रां ज्रीं ज्रूं भालनादिनी । 
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ।।११।। 

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं । 
धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ।।१२।। 

ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय जम्भय जंभय दीपय दीपय मोचय मोचय हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच त्रोटय त्रोटय म्लीं स्वाहा ।।१३।। 

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा । 
म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे । 
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ।।१४।।

कुञ्जिकायै नमो नमः ।
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ।।१५।। 

यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ।।१६।। 

।। इति सिद्ध श्री कुञ्जिका स्तोत्रम् सम्पूर्णम् ।।

 

श्री कनकधारा स्तोत्रम्

अथ श्री कनकधारा स्तोत्रम्

 अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ।।१।।

मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । 
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ।।२।।

आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । 
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ।।३।।

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । 
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ।।४।‌।

कालाम्बुदाळिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ।।५।।

प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्- माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ।।६।।

विश्वामरेन्द्रपदविभ्रमदानदक्षं आनन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्ध- मिन्दीवरोदरसहोदरमिन्दिरायाः ।।७।।

इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । 
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ।।८।।

दद्याद्दयानुपवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ।।९।। 

धीर्देवतेति गरुडध्वजसुन्दरीति गरुडध्वजभामिनीति शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ।।१०।। 

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । 
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ।।११।। 

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ।।१२।। 

नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै ।।१३।।

नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ।।१४।। 

नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै ।।१५।। 

सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । 
त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ।।१६।। 

यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । 
संतनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे ।।१७।। 

सरसिजनिलये सरोजहस्ते धवळतमांशुकगन्धमाल्यशोभे । 
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ।।१८।। 

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम् । 
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ।।१९।। 

कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । 
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ।।२०।। 

देवि प्रसीद जगदीश्वरि लोकमातः कल्यानगात्रि कमलेक्षणजीवनाथे । 
दारिद्र्यभीतिहृदयं शरणागतं मां आलोकय प्रतिदिनं सदयैरपाङ्गैः ।।२१।। 

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । 
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ।।२२।। 

 ।। इति श्री कनकधारा स्तोत्रं सम्पूर्णम् ।।

 

श्री अर्गला स्तोत्रम्

अथ श्री अर्गला स्तोत्रम्

श्री चण्डिका ध्यानम्

या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी 
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।

शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री 
परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥

अथ अर्गला स्तोत्रम्

ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य । 
विष्णुऋषिः । 
अनुष्टुप छन्दः । 
श्री महालक्ष्मीर्देवता । 
श्री जगदम्बाप्रीत्यर्थे सप्तशतिपाठाङ्गत्वेन जपे विनियोगः । 

ॐ नमश्चण्डिकायै ।।

मार्कण्डेय उवाच

ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ।।१।।

जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ।।२।।

मधुकैटभविध्वंसि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।३।।

महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।४।।

धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।५।।

रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।६।।

निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।७।।

वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।८।।

अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।९।।

नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१०।।

स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।११।।

चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१२।।

देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१३।।

विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१४।।

विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१५।।

सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१६।।

विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१७।।

देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१८।।

प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।१९।।

चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२०।।

कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२१।।

हिमाचलसुतानाथसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२२।।

इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२३।।

देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२४।।

भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२५।।

तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।।२६।।

इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ।।२७।।

।। इति अर्गलास्तोत्रं संपूर्णम् ।।

 

श्री रुद्राष्टकं स्तोत्रम्

अथ श्री रुद्राष्टकं स्तोत्रम् 

नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥१॥

निराकारमोङ्करमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम् ।
करालं महाकालकालं कृपालं गुणागारसंसारपारं नतोऽहम् ॥२॥

तुषाराद्रिसंकाशगौरं गभिरं मनोभूतकोटिप्रभाश्री शरीरम् ।
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥३॥

चलत्कुण्डलं भ्रूसुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् ।
मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि ॥४॥

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशं ।
त्र्यःशूलनिर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भावगम्यम् ॥५॥

कलातीतकल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी ।
चिदानन्दसंदोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी ॥६॥

न यावद् उमानाथपादारविन्दं भजन्तीह लोके परे वा नराणाम् ।
न तावत्सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासं ॥७॥

न जानामि योगं जपं नैव पूजां नतोऽहं सदा सर्वदा शम्भुतुभ्यम् ।
जराजन्मदुःखौघ तातप्यमानं प्रभो पाहि आपन्नमामीश शंभो ॥८॥

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ये
पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥९॥

 ॥ इति श्री रुद्राष्टकं सम्पूर्णम् ॥

 

Thursday, October 8, 2020

श्री गायत्री कवचम्

अथ श्री गायत्री कवचम्


विनियोग:


ऋषिरस्य समारख्यातो महादेवो महेश्वर: । 

देवता देवजननी छन्दः सामादि कीर्तितम् ॥१॥ 

धर्मार्थकाममोक्ष अर्थ विनियोग ॥२॥


अथ गायत्री कवचम्


ॐ अस्य श्री गायत्री कवचस्य ब्रह्माऋषि गायत्री छंदो गायत्री देवता ॐ भूः बीजम् भुवः शक्ति स्वः किलकम् गायत्री प्रित्यर्थं पाठे विनियोग: ।


अथ ध्यानम्


पंचवक्त्रां दशभुजां सूर्यकोटी समप्रभाम् । 

सावित्री ब्रह्मवरदां चन्द्रकोटि सुशीलताम् ।।१।। 


त्रिनेत्रां सितवक्त्रां मुक्ताहार विराजिताम् । 

वराऽभयांकुश कशा हेमपात्राक्षमालिका ।।२।। 


शंखचक्राऽब्ज युगलं कराभ्यां दधतीं पराम् । 

सिंत पंकज संस्था च हंसारुढां सुखस्मितम् ।। ३।।


बह्मोवाच कवचम्


विश्वामित्र महाप्राज्ञ गायत्री कवच श्रुणु । 

यस्यविज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात ।।१।।


सावित्री मे शिरः पातु शिखायाममृतेश्वरी । 

ललाटं ब्रह्मदैवत्या भ्रुवो पातु वैष्णवी ॥२॥ 


कर्णो में पातु इन्द्रायणी सूर्यासावित्रिकाऽम्बिके । 

गायत्री वदनं पातु शारदा दशनच्छदौ ।।३।।


द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती । 

सांख्यायनी नासिका मे कपोलौ चंद्रहासिनी ॥४ ॥ 


चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी । 

स्तनौ मे पातु इन्द्राणी हृदयम् ब्रह्मवादिनी ॥५॥ 


उदरं विश्वभोकत्री च नाभौ पातु सुरप्रिया । 

जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ||६|| 


पार्श्वो मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु । 

उर्ध्वोरोंकाररूपा च जान्वोः सन्धात्मिकाऽवतु ॥७॥ 


जंघ्योः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका । 

सूर्या पदद्वयं पातु चंद्रा पादांगुलिषु च ।।८। 


सर्वांग वेद जननी पातु मे सर्वदा ऽनघा । 

इत्येतत् कवचं ब्रह्मन । गायत्र्याः सर्वपावनम् ॥९॥ 


फलश्रुती 


पुण्यं पवित्रं पापघ्नं सर्वरोग निवारणम् । 

त्रिसन्ध्यं यः पठेद् विद्वान सर्वान् कामानवाप्नुयात् ||१०॥


सर्वशास्त्रार्थतत्वज्ञः स भवेद्वेद वित्तमः। 

सर्व यज्ञ फलं प्राप्य ब्रह्मान्ते समवाप्नुयात् ॥११॥ 


प्राप्नोति जपमात्रेण पुरूषार्थाश्चतुर्विधान ||१२|| 


।। इति श्री गायत्री रहस्यतंत्र गायत्री कवचम् ।।




श्री तन्त्रोक्तं रात्रिसूक्तम्

अथ श्री तन्त्रोक्तं रात्रिसूक्तम


ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥१॥


ब्रह्मोवाच


त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥२॥


अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।

त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥३॥


त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।

त्वयैतत् पाल्यते देवि ! त्वमत्स्यन्ते च सर्वदा ॥४॥


विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥५॥


महाविद्या महामाया महामेधा महास्मृतिः ।

महामोहा च भवती महादेवी महासुरी ॥६॥


प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।

कालरात्रिर्महारात्रिमोहरात्रिश्च दारुणा ॥७॥


त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षन्तिरेव च ॥८॥


खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।

शङ्खिनी चापिनी बाण भुशुण्डीपरिघायुधा ॥९॥


सौम्या सौम्यतराशेष सौम्येभ्यस्त्वतिसुन्दरी ।

परापराणां परमा त्वमेव परमेश्वरी ॥१०॥


यच्च किञ्चित् क्वचिद्वस्तु सदसद्वा खिलात्मिके ।

तस्य सर्वस्य या शाक्तिः सा त्वं किं स्तूयसे तदा ॥११॥


यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥१२॥


विष्णुः शरीरग्रहण महमीशान एव च ।

कारितास्ते यतोऽतस्त्वां कः स्तोतं शक्तिमान् भवेत् ॥१३॥


सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।

मोहयैतौ दुराधर्षा असुरौ मधुकैटभौ ॥१४॥


प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥१५॥


।। इति श्री तन्त्रोक्तं रात्रिसूक्तं सम्पूर्णम् ।।

श्रीपाद श्रीवल्लभ स्तोत्रम्

अथ श्रीपाद श्रीवल्लभ स्तोत्रम् 


श्रीपाद वल्लभ गुरोः वदनारविन्दम्

वैराग्य दीप्ति परमोज्वलमद्वितीयम् । 

मन्दस्मितं सुमधुरं करुणार्द्र नेत्रं 

संसार - ताप - हरणं सततं स्मरामि ।।


श्रीपाद वल्लभ गुरो: करकल्पवृक्षम् 

भक्तेष्ट - दान - निरतं रिपुसंक्षयं वै । 

स्मरण मात्र उचित - जागरण सुभद्रम्

संसार - भीति - शमनं सततं भजामि ।।


श्रीपाद वल्लभ गुरो: परमेश्वरस्य 

योगीश्वरस्य शिव शक्ति समन्वितस्य । 

श्री पर्वतस्य शिखरं खलु सन्निविष्टम् 

त्रैलोक्य - पावन - पदाब्जमहं नमामि ।।


।। श्रीपाद श्रीवल्लभ स्तोत्रम् संपूर्णम् ।।

  श्री श्रीपाद श्रीवल्लभ चरणार्पणमस्तु

श्री पंचमुखहनुमत्कवचम्

अथ श्री पंचमुखहनुमत्कवचम्‌


ॐ श्री पंचवदनायांजनेयाय नमः। 

ॐ अस्य श्री पंचमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषिः । गायत्रीछन्दः । 

पंचमुखविराट्हनुमान्‌ देवता । 

ह्रीं बीजम् । 

श्रीं शक्ति । 

क्रौं कीलकम् । 

क्रूं कवचं क्रैं अस्राय फट् इति दिग्बन्धः ॥ 

 

श्री गरुड उवाच: 


अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि । 

यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌ ।।१।। 


पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम्‌ । 

बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्‌ ।।२।। 


पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्‌ । 

दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्‌ ।।३।। 


अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्‌ । 

अत्युग्रतेजोवपुषं भीषणं भयनाशनम्‌ ।।४।। 


पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्‌ । 

सर्वनागप्रशमनं विषभूतादिकृन्तनम्‌ ।।५।। 


उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्‌ । 

पातालसिंहवेतालज्वररोगादिकृन्तनम्‌ ।।६।। 


ऊर्ध्वं हयाननं घोरं दानवांतकरं परम । 

येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम्‌ ।।७।। 


जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्‌ । 

ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्‌ ।।८।। 


खंग त्रिशूलं खट्वांगं पाशमंकुशपर्वतम्‌ । 

मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्‌ ।।९।। 


भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्‌ । 

एतान्यायुधजालानि धारयन्तं भजाम्यहम्‌ ।।१०।। 


प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌ । 

दिव्यमाल्याम्बरघर दिव्यगन्धानुलेपनम्‌ ।।११।। 


सर्वाश्चर्यमय देव हनुमद्विश्वतोमुखम्‌ । 

पश्चास्यमच्युतम नेकविचित्रवर्णं वक्त्रं शशांकशिखरं कपिराजवयम ।

पीतांबरादिमुकुटैरूपशोभितांग पिंगाक्षमाद्यमनिशं मनसा स्मरामि ।।१२।। 


मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्‌ ।

शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ।।१३।। 


ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले ।

यदि नश्यति नश्यति शत्रुकुलं यदि मुश्चति मुश्चति वामलता ।।१४।।


ॐ हरिमर्कटाय स्वाहा । 

ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारणाय स्वाहा । 

ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । 

ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गुरुडाननाय सकलविषहराय स्वाहा । 

ॐ नमो भगवते पंचवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा । 

ऊँ नमो भगवते पंचवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशंकराय स्वाहा । 


विनियोगः


ॐ अस्य श्री पंचमुखहनुमन्मंत्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्‌छन्दः। 

पंचमुखवीरहनुमान्‌ देवता। 

हनुमानिति बीजम्‌। 

वायुपुत्र इति शक्तिः। 

अंजनीसुत इति कीलकम्‌। 

श्रीरामदूतहनुमत्प्रसादसिद्धयर्थे जपे विनियोगः । 


ऋष्यादिकं न्यासः विनियोगः


ॐ अंजनीसुताय अंगुष्ठाभ्यां नमः । 

ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । 

ॐ वायुपुत्राय मध्माभ्यां नमः । 

ॐ अग्निगर्भाय अनामिकाभ्यां नमः । 

ॐ रामदूताय कनिष्ठिकाभ्यां नमः । 

ॐ पंचमुखहनुमते करतलकरपृष्ठाभ्यां नमः । 


करन्यासः 


ॐ अंजनीसुताय हृदयाय नमः । 

ॐ रुद्रमूर्तये शिरसे स्वाहा । 

ॐ वायुपुत्राय शिखायै वंषट् । 

ॐ अग्निगर्भाय कवचाय हुं । 

ॐ रामदूताय नेत्रत्रयाय वौषट् । 

ॐ पंचमुखहनुमते अस्राय फट् । 

पंचमुखहनुमते स्वाहा । 

इति दिग्बन्धः । 


अथ ध्यानम्‌:


वन्दे वानरनारसिंहखग़राट्क्रोडाश्ववक्रान्वितं दिव्यालंकरणं त्रिपश्चनयनं दैदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भांकुशादि हलं खटांगं फणिभूरुहं दशभुजं सर्वारिवीरापहम्‌ ॥१॥

 इति ।। 


अथ मंत्र:

ॐ श्रीरामदूतायांजनेयाय वायुपुत्राय महाबलपराक्र्रमाय सीतादुःखनिवारणाय लंकादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकल ब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लंघनाय पिंगलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय संजीविनीसंजीवितांगदलक्ष्मणमहाकपिसैन्यप्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित रामवरप्रदाय षट्प्रयोगागम पंचमुखवीरहनुमन्मंत्रजपे विनियोगः । 


ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । 

ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । 

ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा । 

ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा । 

ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा ।

ॐ टंटंटंटंटं कूर्ममूर्तये पंचमुखवीरहनुमते परयन्त्रपरतंत्रोच्चाटनाय स्वाहा । 

ऊँ कंखंगंघंड़ं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं ळं क्ष स्वाहा ।  

इति दिग्बंधः । 

ॐ पूर्वकपिमुखाय पंचमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा । 

ॐ दक्षिणमुखाय पंचमुखहनुमते करालवदनाय नरसिंहाय ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।  

ॐ पश्चिममुखाय गरुडाननाय पंचमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा । 

ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पंचमुखहनुमतये स्वाहा । 

ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा । 

ॐ अंजनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचंद्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पंचमुखवीरहनुमते स्वाहा । 

भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह परयंत्रपरतंत्रोच्चटनाय स्वाहा । 

सकलप्रयोजननिर्वाहकाय पंचमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा । 

इदं कवचं पठित्वा तु महाकवच पठेन्नरः । 

एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम्‌ ॥१५॥


द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम्‌ । 

त्रिवारं च पठेन्नित्यं सर्वसम्पतकरं शुभम्‌ ॥१६॥


चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम्‌ । 

पंचवारं पठेन्नित्यं सर्वलोकवशंकरम्‌ ॥१७॥


षड्वारं च पठेन्नित्यं सर्वदेववशंकरम्‌ । 

सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्‌ ॥१८॥


अष्टवारं पठेन्नित्यं मिष्टकामार्थसिद्धिदम्‌ । 

नववारं पठेन्नित्यं राजभोगमवाप्युनात्‌ ॥१९॥


दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्‌ । 

रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम्‌ ॥२०॥


कवचस्मतरणेनैव महाबलमवाप्नुयात्‌ ॥२१॥


॥ इति श्री सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्री पंचमुखहनुमत्कवचं संपूर्ण ॥

Wednesday, October 7, 2020

श्री रूद्रयामल तन्त्रोक्तं कालिका कवचम्

।। श्री गणेशाय नमः ।।


कैलाशशिखरासीनं शङ्करं वरदं शिवम् । 

देवी पप्रच्छ सर्वज्ञं देवदेवं महेश्वरम् ॥१॥


।। देव्युवाच ।।


भगवन् देवदेवेश देवानां मोक्षद प्रभो । 

प्रब्रूहि मे महाभाग गोप्यं यद्यपि च प्रभो ॥२॥  


शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् । 

परमेश्वर्यमतुलं लभेद् येन हि तं वद ॥३॥


।। भैरव उवाच ।। 


वक्ष्यामि ते महादेवि सर्वधर्म हिताय च । 

अद्भुत कवचं देव्यास्सर्वरक्षाकरं नृणाम् ॥४ ॥


सर्वोरिष्ट-प्रशमनं सर्वोपद्रव नाशनम् । 

सुखदं भोग चैव वश्याकर्षणमद्भतम् ॥५॥ 


शत्रुणा संक्षयकरं सर्वव्याधि निवारणम् । 

दुःखिनो ज्वरिणश्चैव स्वाभीष्टप्रहतास्तथा ॥६॥ 


भोगमोक्षप्रदं चैन कालिकाकवचं पठेत् ।



विनियोग:


अस्य श्री काली कवचस्य । 

श्री भैरव ऋषिग्गायत्रीच्छंदः । 

श्री कालिका देवता ।

ममाभीष्टसिद्धये पाठे विनियोग: ।।


कर न्यासः


क्रां 

क्रीं 

क्रूं 

क्रैं 

क्रौं 

क्र: 


हृदयादि न्यासः 


ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरुपिणीम् । 

चतुर्भुजां ललज्जिह्वां पूर्णचन्द्र निभाननाम् ॥७॥


नीलोत्पलदलप्रज्ञा शत्रुसंघविदारिणीम् ॥८॥ 


नरमुण्डं तथा खड्गं कमलं च वरं तथा ।  

बिभ्राणां रक्तवतनां दंष्ट्रया घोररूपिणीम् ॥९॥


अट्टाट्टहास-निरतां सर्वदा च दिगम्बराम् ।  

शवासन स्थितां देवीं मुण्डमाला-विभूषिताम् ॥१०॥


मूल कवच-पाठः


इति ध्वात्वामहादेवीं पुनस्तु कवचं पठेत् । 

ॐ कालिका घोररूपाढ्या सर्वकामप्रदा शुभा ॥११॥ 


सर्वदेव-स्तुता देवी शत्रु नाशं करोतु में । 

ह्रीं ह्रीं स्वरूपिणीं चैव ह्रीं ह्रीं हूं रूपिणीं तथा ॥१२॥ 


ह्रीं ह्रीं क्षें क्षें स्वरुपा सा सदा शत्रून्विदारयेत् । 

श्रीं ह्रीं ऐं रूपिणी देवी भवबन्धविमोचनी ॥१३॥ 


हसकल ह्रीं ह्रीं रिपून् सा हरतु देवी सर्वदा । 

यथा शम्भो हतो दैत्यो निशुम्भश्च महासुरः ॥१४॥ 


वैरिनाशाय वन्दे तां कालिका शंकरप्रियाम् । 

ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहीका ॥ १५॥


कौमार्य स्री च चामुण्डा खादयन्तु मम द्विषः । 

सुरेश्वरी घोररूपा चण्ड-मुण्ड-विनाशिनी ॥१६॥


मुण्डमालावृतांगी च सर्वतः पातु माम् सदा । 

ह्रीं ह्रीं कालिके घोरंदष्ट्रे रुधिरप्रिये रुधिर पूर्ण-वक्त्रे रुधिरावृत्तस्तनि मम शत्रून् खादय खादय हिसय हिंसय मारय मारय भिन्दि भिन्दि छिन्धि छन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा स्वाहा । 

ह्रीं हीं कालिकायै मदीय शत्रून् समर्पयामि स्वाहा । 

ॐ जय जय किरि किरि किटि किटि कुट कुट कट्ट कट्ट मर्दय मर्दय मोहय मोहय हर हर मम रिपून ध्वंसय ध्वंसय भक्षय भक्षय त्रोटय त्रोटय यातुधानि चामुण्डे सर्व जनाज्ञ्राज्ञो राजपुरुषान् योषा रिपून मम वश्यान् कुरु कुरु तनु तनु धान्यं धनमश्वान् गजान् रत्नानि दिव्यकामिनीः पुत्र-पुत्रं राजश्रियं देहि देहि भक्ष भक्ष क्षां क्षीं क्षूं क्षें क्षौं क्षः स्वाहा । 


फलश्रुति


इत्येतत्कवचं दिव्यं कथितं शुम्भ पुरा ॥१७॥ 


ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः । 

प्रलयः सर्व-व्याधींना भवतीह न संशय ॥१८॥ 


धनहीना: पुत्रहीनाः शत्रवस्तस्य सर्वदा । 

सहस्र-पाठनात्सिद्धिः भवेत्तथा ॥१९॥ 


ततः कार्याणि सिद्धयन्ति यथा शङ्कर भाषितम् । 

श्मशानाङ्गारमादाय चूर्णीकृत्य प्रयत्नतः ॥२०॥


पादोदकं स्पृष्ट्वा च लिखेल्लौह-शलाकया । 

भूमौ शत्रुन् हीनरूपान् उत्तराशिरसस्तथा ॥२१॥ 


हस्तं दत्त्वा तद्हृदये कवचं तु स्वयं पठेत् । 

शत्रोः प्राणप्रतिष्ठा अन्तम् कुर्यान्मत्रेण मंत्रवित् ॥२२॥ 


हन्यादत्स्त्र-प्रहारेण शर्त्रुर्गच्छेद् यमालयम् । 

ज्वलदंगार-तापेन भवन्ति ज्वरिणोऽरयः ॥२३॥ 


प्रोक्षणैर्वामपादेन दरिद्रो भवति ध्रुवम् । 

वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ॥२४॥ 


परमैश्वर्य चैव पुत्रपौत्रादिवृद्धिदम् । 

प्रभात-समये चैव पूजाकाले प्रयत्नतः॥२५॥ 


सायंकाले तथा पाठात् सर्ववृद्धिर्भवेद् ध्रुवम् । 

शत्रु उच्चाटन याति देशाच्चवि् अच्युतो भवेत् ॥२६॥ 


पश्चात्किंकरमाप्नोति सत्यं सत्यं न संशयः । 

शत्रुनाशकरं सर्व-सम्पत्प्रदे शुभे ॥२७॥ 


सर्वदेवस्तुते देवि कालिके त्वां नमाम्यहम् ।


।। इति श्री रूद्रयामल तन्त्रोक्तं कालिका कवचम् संपूर्णम् ।। 

श्री कालिकादैव्या चरणार्पणमस्तु

श्री शुभं भवतु


श्री महालक्ष्मी मंत्र

॥ ॐ श्रीं महालक्ष्म्यै च विद्महे सर्वलक्ष्म्यै च धीमहि । तन्नो महालक्ष्म्यै प्रचोदयात् ॥